________________
३०
श्रीज्ञानमञ्जरी अनारोपसुखं मोह-त्यागादनुभवन्नपि ।
आरोपप्रियलोकेषु, वक्तुमाश्चर्यवान् भवेत् ॥७॥ अनारोपेति- अनारोपज-सहजं सुखं स्वगुणज्ञाननिर्धारप्राग्भावरूपं सुखम्, मोहत्यागात्-मोहक्षयोपशमात्, अनुभवन्नपि-भुञ्जन्नपि, आरोपः मिथ्योपचारः प्रियः येषां ते आरोपप्रियाः, आरोपप्रियाश्च ते लोकाश्च आरोपप्रियलोकाः, तेषु आरोपसुखं वक्तुमाश्चर्यवान् भवेत् ? अत्र काकूक्तिः , अपि तु न भवेत्, येन आरोपजं सुखं प्राप्तम्, स आरोपजसुखे आश्चर्यवान् चमत्कारवान् भवति । अथवा अनारोपसुखानुभवी आरोपप्रियलोकेषु अग्रे आरोपजं सुखं सुखमिति वक्तुमपि आश्चर्यवान् भवति, वक्तुं न समर्थो भवति, सुखाभावात् सुखकारणाभावात्, तच्च वस्तुवृत्त्या दुःखरूपे सुखमिति लोकार्थमुक्तेऽपि स्वयमाश्चर्यवान् भवेत्, किमुक्तमिदं 'मया ? नेदं सुखमतः परमसम्भवे सुखे सुखाभासः निवारणीयः मोहमूलत्वात्, पौद्गलिके सुखे सुखभ्रान्तिरेव अभ्यन्तरं मिथ्यात्वमिति ॥७॥
यश्चिदर्पणविन्यस्त-समस्ताचारचारुधीः । क्व नाम स परद्रव्येऽनुपयोगिनि मुह्यति ? ॥८॥
॥ इति मोहत्यागाष्टकम् ॥ ४ ॥ यश्चिद्दर्पण इति- यः-पुरुषः आगमानुगताशयः-चिद्-ज्ञानं सर्वपदार्थपरिच्छेदकम्, तदेव दर्पणम्-आदर्शः तेन (तस्मिन्) विन्यस्ताः स्थापिताः समस्ता ज्ञानाद्याचाराः तेन(येन) (तैः) चारुमनोहरा धीर्बुद्धिर्यस्य सः-पुरुषः, नाम इति कोमलामन्त्रणे, परद्रव्ये-पुद्गलादौ, अनुपयोगिनि-अकिञ्चित्करे, केनापि (कस्मिन्नपि) २कार्ये ग्रहीतुमयोग्ये क्व मुह्यति ? इत्यर्थः, यः ज्ञानादिपञ्चाचारेण संस्कारितोपयोगी आत्मानन्दं ज्ञानदर्पणे पश्यन् परद्रव्ये कथं मुह्यति ? नैवेति । तत्त्वज्ञानविकलानामनादिमिथ्यात्वाऽसंयमवतां स्वरूपानुभवशून्यानामेव परद्रव्यानुभवः । तत्र सुखभ्रान्तिरूपो मोहः । स्वभावधर्मनिर्धार-भासन-रमणानुभवसुखास्वाद१. मयानन्द० V.2. । २. कार्येण L.D.1. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org