________________
सवति । जानाव, न तत्त्वपणारणामनृपराजतर, प
२८
श्रीज्ञानमञ्जरी अभोग्या अग्राह्याः कृताः, ते कथं तत्र रमन्ते ? ॥३॥
पश्यन्नेव परद्रव्य-नाटकं प्रतिपाटकम् । भवचक्रपुरःस्थोऽपि, नामूढः परिखिद्यति ॥४॥
पश्यन्नेवेति- स्वरूपाच्युतस्वधर्मैकत्वे अमूढः-तत्त्वज्ञानी, स्वरूपसाधनोद्यतः, प्रतिपाटकम्-एकेन्द्रिय-विकलेन्द्रिय-पञ्चेन्द्रिय-रूपपाटके नरतिर्यग्देवनरकलक्षणे सर्वस्थाने, परद्रव्यनाटकं-जन्म-जरा-मरणादिरूपं संस्थाननिर्माणवर्णादिभेदविचित्रम्, पश्यन्नेव न परिखिद्यति-न खेदवान् भवति । 'जानाति च पुद्गलकर्मविपाकजा चित्रता न मत्स्वरूपम्, भ्रान्तानां भवत्येव, न तत्त्वपूर्णानाम् । कथंभूतः अमूढः? भवचक्रपुरस्थोऽपि, अनादिस्वकृतकर्मपरिणामनृपराजधानीचतुर्गतिरूपचक्रक्रोडगतोऽपि, आत्मानं भिन्नं जानन् न खिद्यते२, परस्मैपदं तु काव्ये प्रयुक्तत्वात् "खिद्यति काव्ये जडो" इति पाठदर्शनात्, इत्यनेन कर्मविपाकचित्रतां भुञ्जन्नपि अखिन्नस्तिष्ठति, कर्तृत्वकाले न अरत्यनादरौ तर्हि भोगकाले को द्वेषः ? उदयागतभोगकाले इष्टानिष्टतापरिणतिः एव अभिनवकर्महेतुः, अतोऽव्यापकतया भवितव्यम्, शुभोदयोऽपि आवरणम्, अशुभोदयोऽप्यावरणम्, गुणावरणत्वेन तुल्यत्वात् । का इष्टानिष्टता ? ॥४॥
विकल्पचषकैरात्मा, पीतमोहासवो ह्ययम् ।
भवोच्चतालमुत्तालप्रपञ्चमधितिष्ठति ॥ ५ ॥ विकल्पेति-विकल्पाश्चित्तकल्लोला एव चषकाः-मद्यपानपात्राणि तैः, हि इति निश्चितम्, अयं-जीवः पीत: मोह एव आसवो-मादकरसो येन सः पीतमोहासवः पुरुषः, भवोच्चतालं-भवः-संसारः स एव उच्चतालं-मद्यपगोष्ठीक्षेत्रं प्रति उत्तालं-पुनः पुनः उच्चस्वरेण तालादानरूपं प्रपञ्च-विस्तारम् अधितिष्ठति-प्राप्नोति इत्यनेन मोही जीवः, मदिरामत्तवत् चापल्यं वैकल्यं करोति, परं स्वत्वेन स्वं च परत्वेन कलयन्, आत्मानमकार्यनिष्पादनपटिष्ठं प्रवर्तयन्, स्वस्थानभ्रष्टः भ्रमति, अत एव मोहत्यागः श्रेयान् ॥५॥ १. ०च्युति L.D.1. । २. खिद्यति L.D.1. । ३. श्रेयः S.M. विना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org