________________
२६
श्रीज्ञानमञ्जरी शुद्धात्मद्रव्यमेवाहम्, शुद्धज्ञानं गुणो मम । नान्योऽहं न ममान्ये चेत्यदो मोहास्त्रमुल्बणम् ॥२॥
शुद्धेति-शुद्धः-निर्मलः सकलपुद्गलाश्लेषरहितः ज्ञानदर्शनचारित्रवीर्याव्याबाधामूर्ताद्यनन्तगुणपर्यायनित्यानित्याद्यनन्तस्वभावमयः, असङ्ख्यप्रदेशी, स्वभावपरिणामी, स्वरूपकर्तृत्वभोगकर्तृत्वादिधर्मोपेतः, (आत्मा शुद्धात्मा, तदेव) शुद्धात्मद्रव्यमेव अहम्, अनन्तस्याद्वादस्वसत्ताप्राग्भावरसिकः, अनवच्छिन्नानन्दपूर्णपरमात्मा परमज्योतीरूपः अहम्, शुद्धं निरावरणं सूर्यचन्द्रादिसहायविकलप्रकाशम्, एकसमये त्रिकाल-त्रिलोकगतसर्वद्रव्यपर्यायोत्पादव्ययध्रौव्यावबोधकं ज्ञानं मम गुणः, अहं कर्ता ज्ञानस्य, मे कार्यं ज्ञानम्, ज्ञानकरणान्वितः, ज्ञानपात्रम्, ज्ञानात् जानन्, ज्ञानाधारः अहम्, ज्ञानमेव मम स्वरूपम् । इत्यवगच्छन् अन्ये धर्माधर्माकाशपुद्गलास्ततोऽन्यो जीवपदार्थः, जीवपुद्गलसंयोगजपरिणामः अन्यः सर्वः अहं न, मत्तः भिन्ना एव एते पूर्वोक्ताः भावाः, मम द्रव्यादिचतुष्टयेन भिन्नत्वात् । यो हि व्याप्यव्यापकभावाद् भिन्नः, मम स न, यः असङ्ख्यप्रदेशे स्वक्षेत्रे अभेदतया स्वपर्यायपरिणामः स मम इति, स्वस्वरूपे स्वत्वम्, परे परत्वपरिणामः, मोहास्त्रं-मोहच्छेदकम् अस्त्रम् ईदृग्भेदज्ञानविभक्तत्यक्तेन मोहक्षय; अतः सर्वपरभावभिन्नत्वं विधेयम् । अत एव निर्ग्रन्थाः त्यजन्ति आश्रवान्, श्रयन्ति गुरुचरणान्, वसन्ति वनेषु, उदासीभवन्ति विपाकेषु, अभ्यसन्ति आगमव्यूहम्, अनादिपरेभावच्छेदाय प्रयत्नः उत्तमानाम् ॥२॥
१. शुद्धात्मद्रव्य इति B.1., A.D. । २. एष पाठो नास्ति V.2., B.1.2., S.M. । ३. ज्ञानपात्रः सर्वप्रतिषु । ४. उल्बणमिति शब्दस्य वृत्तिर्न दृश्यते । +अत्र "असी गत्यादानयोश्च" (धा०-१३२) इति अस् भ्वादिको ग्राह्यः । ५. भावभेदच्छेदाय L.D.1.2. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org