SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ मोहत्यागाष्टकम् (४) अहं ममेति मन्त्रोऽयम्, मोहस्य जगदाध्यकृत् । अयमेव हि नपूर्वः, प्रतिमन्त्रोऽपि मोहजित् ॥१॥ अहं ममेति मन्त्रोऽयमिति-अहमिति मोहस्यात्माऽशुद्धपरिणामस्य उपचारतः नृपेतिसंज्ञस्य अहं मम, इति अयं मन्त्रः जगदान्ध्यकृत्ज्ञानचक्षूरोधकः, अहमिति-स्वस्वभावेनोन्मादः परभावकरणे कर्तृतारूपोऽहंकारः अहम्, सर्वस्वपदार्थतः भिन्नेषु पुद्गलजीवादिषु इदं ममेति परिणामो ममकारः, इत्यनेन अहं ममेति परिणत्या सर्वपरत्वं स्वतया कृतम्, एषः अशुद्धाध्यवसायः मोहजः, मोहोद्योतकश्च, शुद्धज्ञानाञ्जनरहितान् जीवान् (शुद्धज्ञानाञ्जनरहितानां जीवानाम्) आन्ध्यकृत् स्वरूपावलोकनशक्तिध्वंसकः, हि इति निश्चितम्, अयमेव नपूर्वकः प्रतिमन्त्रोविपरीतमन्त्रः मोहजित्-मोहजयो मन्त्रः, तथा च नाऽहम् एते ये परे भावा, ममापि एते न, भ्रान्तिः एषा, साम्प्रतं यथार्थपदार्थज्ञानेनाहं पराधिपः, न परभावा मम । उक्तं च [10] *एगोहं नत्थि मे कोई, नाहमन्नस्स कस्स वि । एवं अदीणमणसो, अप्पाणमणुसासई ॥२६॥ एगो मे सासओ अप्पा, नाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥२७॥ संजोगमूला जीवेण, पत्ता दुक्खपरम्परा । तम्हा संजोगसंबंधं 'सव्वं तिविहेण वोसिरे ॥२८॥ [आउरपच्च० गा० २६,२७,२८] इत्येवं विभाव्य द्रव्यकर्मतनुधनस्वजने भिन्नतां नीतेषु स्वभावैकत्वेन मोहजयो दृष्टः, अतः अहङ्कारममकारत्याग इष्ट इति ॥१॥ पुनस्तदेव भावयति ★ महापच्च० गा० १३,१६, संथारापोरिसी गा०११-१२-१३ चंदाविज्झयं -पय०गा०१६०-१६१ । १. सव्वे सर्वप्रतिषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy