________________
२४
श्रीज्ञानमञ्जरी पापस्थानहेतुपरद्रव्येषु कुदेव-कुगुरु-कुधर्मेषु, प्रशस्तस्तु मोक्षमार्गेसम्यग्दर्शन-ज्ञान-चारित्र-तपोहेतुषु सुदेवगुर्वादिषु । तत्र मोहत्यागः उत्सर्जनम्, भिन्नीकरणम्, अत्र यावत् (यावान्) अप्रशस्तमोहस्तावत् (तावान्) सर्वथा त्याज्य एव, अशुद्धत्वनिबन्धनत्वात् । प्रशस्तमोहः साधने असाधारणहेतुत्वेन पूर्णतत्त्वनिष्पत्तेः अर्वाक् क्रियमाणोऽपि अनुपादेयः । श्रद्धया विभावत्वेनैवावधार्यः । यद्यपि परावृत्तिस्तथापि अशुद्धपरिणतिरतः साध्ये सर्वमोहपरित्याग एव श्रद्धेयः, आद्यनयचतुष्टये कर्मवर्गणापुद्गलेषु तद्योगेषु तद्ग्रहणप्रवृत्त्या सङ्कल्पे कर्मपुद्गलेषु सत्तागतेषु बध्यमानेषु चलोदीरितेषु उदयप्राप्तेषु अशुद्धविभावपरिणामरूपमोहहेतुषु मोहत्वम् । शब्दादिनयत्रये मोहपरिणतचेतनापरिणामेषु मिथ्यात्वासंयमप्रशस्ताऽप्रशस्तरूपेषु मोहत्वम् । अत आत्मनोऽभिनवकर्महेतुः मोहपरिणामः । मोहेनैव जगद् बद्धम्, मोहमूढा एव भ्रमन्ति संसारे । यतः ज्ञानादिगुणसुखरोधकेषु चलेषु अनन्तवारमनन्तजीवैर्भुक्तमुक्तेषु जडेषु अग्राह्येषु पुद्गलेषु मनोज्ञाऽमनोज्ञेषु' ग्रहणाग्रहणरूपो विकल्पः मोहोद्भवः । तेनायं पुद्गलासक्तः मोहपरिणत्या पुद्गलानुभवी स्वरूपानवबोधेन मुग्धः परिभ्रमति । अतः मोहत्यागो हितः । उक्तं च
आया नाणसहावी, सणसीलो विसुद्धसुहरूवो । सो संसारे भमइ, एसो दोसो खु मोहस्स ॥१॥ जो उ अमुत्ति अकत्ता२, असंगनिम्मलसहावपरिणामी । सो कम्मकवयबद्धो, दीणो सो मोहवसगत्ते ॥२॥ ही दुक्खं आयभवं, मोहमप्पाणमेव धंसेई । जस्सुदये णियभावं, सुद्धं सव्वं पि नो सरई ॥३॥ इत्येवं मोहस्य विजृम्भितं मत्वा त्याज्यमिति कथयति
१. एष पाठो नास्ति B.2. S.M. V.1.2. L.D.1.2. । २. अमुत्तिऽकत्ता S.M., B.2. अमुत्तिकत्ता V.2. । ३. सरइ B.2., V.2., A.D. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org