________________
२३
मोहत्यागाष्टकम् (४)
चारित्रं स्थिरतारूपमतः सिद्धेष्वपीष्यते । यतन्तां यतयोऽवश्यमस्या एव प्रसिद्धये ॥८॥
॥ इति तृतीयं स्थिरताष्टकम् ॥ ३ ॥ चारित्रमिति- अतः कारणात्सिद्धेष्वपि सकलकर्ममलमुक्तेष्वपि स्थिरतारूपं चारित्रमिष्यते, पञ्चमाले सिद्धानां चारित्राभावः उक्तः स च-क्रियाव्यापाररूपः, यस्तु स्थिरतारूपः स च वस्तुधर्मत्वात् अस्त्येवेति, प्रज्ञापना-तत्त्वार्थ-विशेषावश्यकादिषु व्यक्तं व्याख्यातत्वात्, आवरणाभावे आवार्यस्य प्रागभावात् विगतचारित्रमोहस्य चारित्रप्रकटनात्, सिद्धानामपि स्थिरतारूपं चारित्रम्, अतः स्थिरता साधनीया, प्रथमं सम्यग्दर्शनेन श्रद्धास्थिरतां कृत्वा सद्भासनस्वरूपविश्रान्तिस्वरूपैकाग्रतारूपां स्थिरतां कृत्वा समस्तगुणपर्यायाणां स्वकार्यप्रवृत्तिरूपां स्थिरतां निष्पाद्य, समस्तात्मपरिणतिनिःसङ्गरूपां परमां स्थिरतां निष्पादयति, अतः समस्तचापल्यरोधेन योगस्थिरतां कृत्वा उपयोगस्थिरत्वेन स्वरूपकर्तृत्व-स्वरूपरमण-स्वरूपभोक्तृत्वरूपं स्थिरत्वं साध्यम्, तस्मात् स्थिरत्वसाधने यत्नः करणीय इत्युपदेशः ।।८।।
॥ इति व्याख्यातं स्थिरताष्टकम् ॥ ३ ॥
॥ अथ चतुर्थं मोहत्यागाष्टकम् ॥ अथ स्थिरता मोहत्यागाद् भवति, आत्मनः परिणतिचापल्यं मोहोदयात्, मोहोदयश्च निर्धाररूपसम्यग्दर्शनस्वरूपरमणचारित्रावारकश्च, क्षयोपशमी चेतनावीर्यादीनां विपर्यासपररमणतादिपरिणमनरूपः, इति तेन चापल्यम्, अतः मोहोदयवारणेन स्थिरता भवति, तेन मोहत्यागाष्टकं वितन्यते, नामस्थापनामोहः सुगमः, द्रव्येण-मदिरापानादिना मोहःमूढता परिणामः, द्रव्यात्-धनस्वजनवियोगात्, द्रव्ये-शरीरपरिग्रहादौ, द्रव्यरूपो मोहः मोहनगीतादिषु गन्धर्वादीनां वाक्येषु, अनुपयुक्तस्य आगमतो, नोआगमतो रागवत्सु । भावतः मोहः अप्रशस्तः, समस्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org