________________
मग्नाष्टकम् (२)
१७ रागादयो वस्तुपरिणामाः, किन्तु विभावजा अशुद्धा भ्रान्तिपरिणतिः, नहि पुद्गलादीनां शुभाशुभपरिणतिः कस्यापि जीवस्य निमित्ता, किन्तु पूर्णगलनपारिणामिकत्वेन । अथ वर्णादिकर्मविपाकाद्वा तत्र रागद्वेषता नु भ्रान्तिरेव । उक्तं च
कणगो लोहो न भणइ, रागो दोसो कुणंतु मज्झ तुमं ।। नियतत्तविलुत्ताणं, एस अणाईअ परिणामो ॥१॥
स्वरूपस्य स्वायत्तत्वात् स्वभोग्यत्वात् परवस्तुसंयोगवियोगाभ्यामिष्टानिष्टतोपाधिः, एवं शमस्य शैत्यं-शीतलत्वम् अतप्तत्वम्, तस्य पुषः-पोषकस्य यस्य पुरुषस्य शमशैत्यपुषः, विपुषः-बिन्दुमात्रस्यापि महाकथा-महावार्ता, शमशैत्यबिन्दुरपि दुर्लभः, यस्य ज्ञानपीयूषेतत्त्वज्ञानामृते सर्वाङ्गमग्नता, तत्र-तस्मिन् स्थाने किं 'स्तुमः-कि वर्णयामः ? तस्य वर्णनां वक्तुमसमर्था वयमिति । यो हि स्वरूपज्ञानानुभवमग्नः स अतिप्रशस्यः । उक्तं च[9] "*लब्भइ सुरसामित्तं, लब्भइ पहुअत्तणं न संदेहो ।। इक्को नवरि न लब्भइ, जिणंदवरदेसिओ धम्मो ॥१४॥
__ [सं०स०गा०१४] धम्मो पवित्तिरूवो, लब्भइ कइया वि निरयदुक्खभया । जो नियवत्थुसहावो, सो धम्मो दुलहो लोए ॥२॥ नियवत्थुधम्मसवणं, दुल्लहं वुत्तं जिणिदिआण सुयं ।
तप्फासणमेगत्तं, हुंति केसिं च धीराणं ॥३॥" अतः वस्तुस्वरूपधर्मस्पर्शनेन परमशीतीभूतानां परमपूज्यत्वमेव ॥७॥ यस्य दृष्टिः कृपावृष्टिः, गिरः शमसुधाकिरः । तस्मै नमः शुभज्ञान-ध्यानमग्नाय योगिने ॥८॥
॥ इति द्वितीयं मग्नाष्टकम् ॥ २ ॥
-
१. ब्रूमः B.1.2., S.M., V.2. । * सम्बोधप्रकरणे गा०९५९, रलसंचयः गा०५०३, चतुर्थं चरणं पृथगस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org