________________
श्रीज्ञानमञ्जरी अवाग्गोचरत्वात्, तद् अध्यात्मसुखं प्रिया-मनोज्ञेष्टवनिता' तस्या आश्लेषैः-आलिङ्गनैः तथा चन्दनद्रवै:-चन्दनविलेपनैर्नोपमीयते । यतः स्रक्चन्दनाङ्गनादिसुखं वस्तुतः न सुखम्, आत्मसुखनष्टैः सुखबुद्ध्या आरोपितम्, लोके पुद्गलसंयोगजम् आरोपसुखं जात्या दुःखमेव । उक्तं च विशेषावश्यके [8] जत्तो च्चिअ पच्चक्खं, सोम्म ! सुहं नत्थि दुक्खमेवेदं ।
तप्पडियारविभत्तं, तो पुण्णफलं ति दुक्खं ति ॥ २००५ ॥ *विसयसुहं दुक्खं चिय, दुक्खप्पडियारओ त्तिगिच्छव्व । तं सुहमुवयाराओ, न उवयारो विणा तच्चं ॥ २००६ ॥ सायासायं दुक्खं, तव्विरहंम्मि य सुहं जओ तेणं । देहेंदिएसु दुक्खं, सुक्खं देहिंदियाभावे ॥ २०११ ॥ उक्तं चऔत्सुक्यमात्रमवसादयति प्रतिष्ठा, क्लिश्नाति लब्धपरिपालनदृष्टिरेव । नातिश्रमापगमनाय यथा श्रमाय, राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥१॥ इति ॥
तस्मात् संसारः सर्वः दुःखरूप एव । स्वाभाविकानन्द एव सुखम्, यावद् इन्द्रियसुखे सुखबुद्धिः, तावत् सम्यग्दर्शनज्ञाने न इति तत्त्वार्थवृत्तौ, अतः अध्यात्मसुखं पुद्गलाऽऽश्लेषजसुखेन नोपमीयते इति ॥६॥
शमशैत्यपुषो यस्य, विप्रुषोऽपि महाकथा । किं स्तुमो ज्ञानपीयूषे, तत्र सर्वाङ्गमग्नता ? ॥७॥
शमशैत्यपुष इति- शमः-उपशमः रागद्वेषाभावः, तत्त्वास्वादकत्वम् आत्मनि निर्धार्य इष्टानिष्टे वस्तुनि रागादीनां शान्तिः, नहि १. वनिताश्लेषैः सर्वप्रतिषु । २. भ्रष्टैः S.M.I ★ संग्रहशतकम् गा०६३, ७२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org