________________
१
श्रीज्ञानमञ्जरी __ यस्येति- तस्मै-शुभज्ञानध्यानमग्नाय योगिने नमः, शुभं नाम शुद्धम्, ज्ञानं-यथार्थपरिच्छेदनम्, भेदज्ञानविभक्तस्वपरत्वेन स्वस्वरूपैकत्वानुभवः, तन्मयत्वं ध्यानम् तत्र मग्नः, तस्मै योगिने-मनोवाक्कायरोधकाय, रत्नत्रयाभ्यासशुद्धसाध्यसंसाधकाय नमः । कस्य ? यस्य दृष्टिः कृपावृष्टिः-परमकरुणावर्षिणी, यस्य गिरः-वाचां समूहः शमसुधाकिर:-क्रोधादिपरित्यागः शमः, स एव सुधा-अमृतम्, तस्याः किरणं-सेचनम्, (यस्य) तच्छीला दृष्टिः कृपामयी वाक् समतामृतमयी, तस्मै योगिने नमः इति । अत्र भावना-अनादिमिथ्यात्वासंयमकषाययोगचापल्यविध्वस्तात्मस्वभावानाम्, इष्टानिष्टपरभावग्रहणाग्रहणरसिकत्वेन तत्प्राप्त्यप्राप्तौ रत्यरत्यशुद्धाध्यवसायमग्नानां जीवानां कुतः स्वरूपमग्नता ? ततः शङ्काद्यतिचारवियुक्तावाप्तदर्शनो हि जीवः शुद्धाशयः त्रिभुवनमप्युपहतमोहमहेन्धनज्वलितकर्मदहनक्वथ्यमानमशरणमवलोक्य गुणावरणाद्दुःखोद्विग्नः, निर्धारिततत्त्वश्रद्धानः, आश्रवनिवृत्तिसंवरैकत्वप्रतिज्ञामारूढः दृढीकरणार्थम्, पञ्चविंशतिभावनाभावितान्तरात्मा द्वादशानुप्रेक्षास्थिरीकृताध्यवसायः, पूर्वकर्मनिर्जराभिनवाग्रहणाविर्भावभूतस्वरूपसम्पदानुभवमग्नाः सुखिनः, अत एवागमश्रवणविभावविरतितत्त्वावलोकनतत्त्वैकाग्रताधुपायैः स्वरूपानुभवमग्नत्वमेव कार्यम्, संसारे कर्मक्लेशसंततत्वमवगम्य संसारोद्विग्नेन विरागमार्गानुगप्रवर्तिनात्मस्वरूपाविर्भावहेतुषु सम्यग्दर्शनज्ञानचारित्रेषु वर्तितव्यमित्यर्थः ॥८॥
॥ इति व्याख्यातं मग्नाष्टकम् ॥ २ ॥
॥ अथ तृतीयं स्थिरताष्टकम् ॥ अथ मग्नत्वं स्थिरतया भवति, अतः स्थिरताष्टकं प्रदर्श्यते, तत्र धर्मास्तिकायादीनां त्रयाणां स्थिरता अक्रियत्वात्, पुद्गलानां स्थिरता स्कन्धादिनिबद्धा, सा तु न साधनहेतुः, अत्र नाङ्गीकृता, या तु वस्तुवृत्त्या
१. तदेव सर्वप्रतिषु ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org