________________
श्रीज्ञानमञ्जरी पुद्गलभोगपिपासा, सा एव कृष्णाहि:-कृष्णसर्पः, तद्दमने जाङ्गलीगारुडमन्त्रविशेषः इति । अत्र भावना-संसारचक्रकोडगतस्य जन्तोः स्वीयासंख्ये यप्रदेशव्याप्तज्ञानादिगुणास्वादच्युतस्य पौद्गलिकभोगपिपासासर्पदष्टस्य स्वपरविवेकरूपा ज्ञानदृष्टिजाङ्गलीस्मरणेन परतृष्णानिर्विषस्य शुद्धस्वरूपैकत्वतत्त्वध्यानमग्नस्य निष्पन्नक्षायिकभावानन्दस्य पूर्णस्य नास्ति दीनता, यतो हि अविरतसम्यग्दृष्टिः तत्त्वश्रद्धायुक्त आत्मानमात्मतया परं च परतया निर्धार्या विचारयन् तृष्णातुरो न भवति तर्हि किं पूर्णानन्दमग्नानाम् ? इति ॥४||
पूर्यन्ते येन कृपणास्तदुपेक्षैव पूर्णता ।
पूर्णानन्दसुधास्निग्धा, दृष्टिरेषा मनीषिणाम् ॥५॥ पूर्यन्त इति-येन-परसंयोगेन धनधान्यादिना कृपणा:-लोभ-मग्नाः आत्मधर्मसंपद्विकलाः परास्वादनरसिकत्वेनात्मानं धन्यं मन्यमानाः, वस्तुधर्मे धीरताशून्याः, पूर्यन्ते-प्रचुरा भवन्ति सा- पूर्णता उपाधिजा उपेक्ष्या एव अनङ्गीकारयोग्या एव । अथवा तदुपेक्षा एव, न हि एषा पूर्णता किन्तु पूर्णतात्वेन उपेक्षते आरोप्यते इत्यर्थः । यथाहि-घटः जलेनापूर्णः बहिः स्निग्धजमलेन पूर्णः केनचिदुच्यते मलपूर्णोऽयं घटः, एषा मलजा पूर्णता, सा किं पूर्णकुम्भत्वावस्थां लभते ? नैवेति । एवमात्मानन्तज्ञानानन्दादिस्वरूपापूर्णस्य कर्मोपाधिजा पूर्णता सा किं तत्त्वभोगपूर्णैः पूर्णत्वेनाङ्गीक्रियते ? नैवेति । एवं ज्ञात्वा उपेक्षा एव । अत एव अनादिस्वरूपभ्रष्टानां परोपाधिजा पूर्णता तन्मयत्वेनाभेदपरिणत्या प्रवर्त्तमानत्वात्, निर्विकल्पायां तु सम्यग्दर्शनज्ञानचारित्रभेदरत्नत्रयीरूपा पूर्णता स्वाभाविकी अपि अभिनवाभ्यासतः सविकल्पा क्षयमाणत्वात्, अभेदरत्नत्रयीपरिणतानां स्वाभाविकी पूर्णता निर्विकल्पा भवति, तत्साध्यत्वेन तत्त्वसाधनरसिकतया भवितव्यमित्युपदेशः,
१. विचरन् A.D., L.D. 1 । २. मयानाम्-B.1.2, V.1.2., S.M. I ३. उपेक्षा S.M. विना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org