________________
पूर्णाष्टकम् (१) मनीषिणां-पण्डितानां शुद्धश्रद्धानभासनपूर्वकतत्त्वरमणानुगवीर्यप्रवृत्तिमतां पूर्णानन्दसुधा तया स्निग्धा दृष्टिर्भवति । पूर्ण:-अन्यूनः य आनन्दः पूर्णानन्द एव सुधा पूर्णानन्दसुधा तया स्निग्धा दृष्टिः पूर्णानन्दसुधास्निग्धा एषा भवतीति सम्बन्धः । स्वरूपस्वाभाविकपूर्णात्मीयात्यन्तिकैकान्तिकनिर्द्वन्द्वानन्द[सुधा] स्निग्धा दृष्टिः तत्त्वज्ञानवतां भवति। तत्त्वज्ञानिनः स्वरूपानन्दपूर्णतामेव पूर्णत्वेन मन्यन्ते इति, न तत्र पौद्गलीपूर्णतासङ्कल्पः, उपाधित्वेन निर्धारात् ॥५॥
अपूर्णः पूर्णतामेति, पूर्यमाणस्तु हीयते ।
पूर्णानन्दस्वभावोऽयम्, जगदद्भुतदायकः ॥६॥ अपूर्णः इति -यः त्यागपरिणत्या सकलपुद्गलपरित्यागरुचिः पुद्गलैः अपूर्णः साधकात्मगुणैः पूर्णताम् एति-प्राप्नोति । तु-पुनः पूर्यमाणः पुद्गलैः हीयते पूर्णानन्देन, पुद्गलैः पूर्यमाणस्य आत्मानन्दो हीयते एव। अयं ज्ञानगोचरीभूतः पूर्णानन्दस्वभावः जगदद्भुतदायकः' अस्ति इति । पूर्णानन्दस्वभावस्येयमद्भुतता, परसंगत्यागे वृद्धिः, परभावपूरणे हानिः । अत्र भावना-आत्मनः सकलस्वरूपाविर्भावानुभावोत्पन्नानन्दः, जगति-अनादिप्रवृत्तिप्रवृत्तपुद्गलानन्दभोक्तरि विस्मयरूपः । शुद्धतत्त्वपूर्णानां तु स्वरूपत्वात् न विस्मयः । अत एव पूर्णानन्दसाधनभूते विशुद्धसम्यग्रत्नत्रयसाधने यत्नो विधेय इति ॥६॥
. परस्वत्वकृतोन्माथा, भूनाथा न्यूनतेक्षिणः ।
स्वस्वत्वसुखपूर्णस्य, न्यूनता न हरेरपि ॥७॥ परस्वत्वेति-परे-परवस्तुनि सङ्गाङ्गिभावजविभावपरिणतौ स्वस्य भावः-स्वत्वम्, परे स्वत्वं-परस्वत्वम्, तेन कृत उन्माथ उन्माद:व्याकुलत्वम्, येषां ते परस्वत्वकृतोन्माथाः एवंभूता भूनाथा:-पृथ्वीशाः अपि, न्यूनतेक्षिण:-न्यूनतादर्शनशीलाः, यतः परसंपद्रक्तानां चिन्ता१.आत्मज्ञानिनः L.D.2 । २. अपूर्णः पूर्णतामेति इत्यादि V. 1.2., B. 1.2., S.M., L.D.11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org