________________
पूर्णाष्टकम् (१) तत्त्वरसिकानां तु-पुनः या स्वाभाविकी-स्वभावोत्था दर्शनज्ञानचारित्राद्यात्मका सकलात्मस्वभावाविर्भावरूपा शोभा सा एव शोभा, जात्यरत्नविभानिभा-जात्यरत्नस्य विभा-कान्तिः तत्तुल्या, या हि पुद्गलादिपरोपाधिजन्या सा तु स्फटिको पलपुटिकावर्णिकातुल्या, या तु स्वभावोत्पन्ना सा तु जात्यमाणिक्यकान्तितुल्या, अतः स्वीयशुद्धसहजपूर्णतारुचिभासनरमणतया भवितव्यमिति ॥२॥
अवास्तवी विकल्पैः स्यात्, पूर्णताब्धेरिवोर्मिभिः ।
पूर्णानन्दस्तु भगवान्, स्तिमितोदधिसंनिभः ॥३॥ अवास्तवी इति–वस्तु-पदार्थः, तस्य इयं वास्तवी, न वास्तवीअवास्तवी-परसंयोगोद्भवा, रागद्वेषमोहादिजैः विकल्पैः पूर्णता, अब्धे:समुद्रस्य ऊम्मिभिः इव स्यात् । यथा-ऊर्मिभिः समुद्रः अग्राह्योऽनवगाह्यश्च भवति । तथाऽत्मापि रागद्वेषोर्मिभिः अग्राह्योऽनवगाह्यश्च भवति । तु-पुनः, पूर्णानन्दः-आत्मीयानन्तसम्पदास्वादरूपनिष्पन्नपरमात्मावस्थारूपः । भगवान्-परमैश्वर्य रूपः, स्तिमितोदधिःस्थिरोदधिः, तेन' संनिभः-सदृश इति । अतश्चलत्वं विहाय अचलतया भवितव्यम्, आत्मा आत्मस्वभावस्थ: निर्विकल्पो भवति तत्साधनाय यतितव्यमित्यर्थः ॥३॥
जागर्ति ज्ञानदृष्टिश्चेत्, तृष्णाकृष्णाहिजाङ्गली ।
पूर्णानन्दस्य तत्कि स्याद्, दैन्यवृश्चिकवेदना ? ॥४॥ जागति ज्ञानेति-चेत्-यदि ज्ञानदृष्टिः-तत्त्वज्ञानरूपा दृष्टिः-चक्षुः, जागत्ति-विकाशरूपा प्रवर्तते, तस्य पूर्णानन्दस्य-स्वरूपाविर्भावास्वादानन्दयुक्तस्य भगवतः दैन्यं-दीनता तद्रूपा वृश्चिकवेदना किं स्यात् ? अपि तु न स्यात् । दैन्यं-न्यूनस्य भवति स्वीयसहजाप्रयासानन्दस्य पूर्णतैव भवति । कथम्भूता ज्ञानदृष्टिः ? तृष्णाकृष्णाहिजाङ्गुली-तृष्णा१. तत्सन्निभः S.M.(संशो०), तस्य सन्निभ: L.D.1 ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org