SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ नमः श्रीपूर्णानन्दस्वरूपाय । ऐन्द्र श्रीसुखमग्नेन, लीलालग्नमिवाखिलम् । सच्चिदानन्दपूर्णेन, पूर्णं जगदवेक्ष्यते ॥१॥ श्रीज्ञानमञ्जरी ऐन्द्रश्री इति तेन मुनिना पाठकेन सूरिणा यथार्थक्षयोपशमोपयोगवता तथा श्रीमदर्हता सिद्धपरमात्मना २ क्षायिकोपयोगवता पूर्णंसकलम्, जगत्-अशुद्धपरसंयोगोत्पन्ननवनवपर्यायगमनशीलत्वात् जगत् लीलालग्नमिव- कल्पनाकल्पितक्रीडामुग्धमिव अवेक्ष्यते दृश्यते इति संटङ्कः। इत्यनेन शुद्धामूर्त्तात्मानन्दानुभवलग्नाः परानुभवमग्नान् मूढत्वेनैव पश्यन्ति न च परवस्तुनि किञ्चिद् भोग्यत्वमस्ति, वस्तुवृत्त्या स्वीयगुणपर्यायानुभव एव युक्त इति । अतः परस्वरूपमग्ना मुग्धा इति तात्पर्यम् तेन कथंभूतेन ? ऐन्द्र श्रीसुखमग्नेन इन्द्रो - जीवः तस्य इयम् ऐन्द्री च या श्रीश्च ऐन्द्रश्रीः - आत्मगुणलक्ष्मीः तस्याः सुखम् - आनन्दः तत्र मग्नेन–एकत्वावस्थाssपन्नेन, पुनः सत् - शुभं शाश्वतं वा चित्-ज्ञानं तस्य य आनन्दः तत्र पूर्णेन - ज्ञानानन्दभृतेन मुनिना जगत् मिथ्यात्वासंयममग्नं मूढं विलोक्यते, पूर्णाः अपूर्णं जगत् भ्रान्तं जानन्ति इत्यतः पूर्णानन्दात्मस्मरणेन स्वीयः पूर्णानन्दः साध्य इति ॥१॥ अथ पूर्णत्वं वस्तुनो निरूपयति । पूर्णता या परोपाधेः, सा याचितकमण्डनम् । या तु स्वाभाविकी सैव, जात्यरत्नविभानिभा ॥२॥ पूर्णता या परोपाधेः इति - या परोपाधेः पुद्गलसंयोगजन्यतनुधनस्वजनयशःख्यात्यादिरूपा या पूर्णता चक्रिशक्रादीनामिव सा याचितकमण्डनं- मार्गिताभरणशोभा तेन इभ्यत्वम्, यद् जगज्जीवैरनन्तशो भुक्त्वोच्छिष्टमात्मनोऽशुद्धताहेतुः तद्योगे स्वरूपानुभवभ्रष्टानां शोभा न, १. पूर्णेनाso S. M. (संशो०) वृत्तिकारेणायं पाठो गृहीतः । २. क्षायिकोपयोगवता न्यायसरस्वतीबिरुदधरेण श्रीमद्यशोविजयोपाध्यायेन L.D. 1. विना सर्वप्रतिषु । ३. 'दृश्यते' नास्ति B-1-2, V.1-2. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy