________________
१८१
वा उक्तवादाभ्यामन्यः, 'इति' अनेन प्रकारेण, 'एषोऽन्तरोक्तः, तिस्रो विधाःप्रकारा यस्य स 'त्रिविधः' 'कीर्तितः'-संशब्दितः, 'परमर्षिभिः'-प्रधानमुनिभिरिति ॥१॥ (हारि०अष्ट०प्र० अष्ट०१२,श्लो०१) 32/5
[138] तान् आत्मानं च दुर्गतौ क्षिपतीति निगमयन्नाहसावज्जजोगपरिवज्जणाए, सव्वुत्तमो जइधम्यो । बीओ सावगधम्मो, तइओ संविग्गपक्खपहो ॥५१९॥
'सावज्ज०' गाहा, तस्मात् स्थितमेतत् सावद्ययोगपरिवर्जनया सपापव्यापारपरिहारलक्षणया हेतुभूतया सर्वोत्तमो यतिधर्मः साध्वाचारो मोक्षमार्ग इति शेषः, द्वितीयः श्रावकधर्मस्तृतीयः संविग्नपक्षपथः, तद्धेतुत्वात् तावपि मोक्षमार्गाविति ॥५९९।।
अधुना तयोरेवापिशब्दसूचितस्य संविग्नपाक्षिकमार्गस्य स्वकार्यसाधकत्वं दर्शयन्नाह
सुज्झइ जई सुचरणो सुज्झइ सुस्सावओ वि गुणकलिओ। ओसन्नचरणकरणो, सुज्झइ संविग्गपक्खरुई ॥५१३॥
'सुज्झइ०' गाहा, शुद्ध्यत्यशेषकर्ममलकलङ्कप्रक्षालनेन निर्मलो भवति यतिः सुचरणो दृढचारित्रः शुद्ध्यति सुश्रावकोऽपि गुणकलितः सम्यग्दर्शनाणुव्रतादिषु सुप्रतिष्ठः, अवसन्नचरणकरणः शिथिलोऽपि स्वयम्, अपिशब्दोऽत्रापि सम्बध्यते, शुद्ध्यति, किंभूतः सन्नित्याह-संविग्ना मोक्षाभिलाषिणः सुसाधवः तत्पक्षे तदनुष्ठाने रुचिरभिलाषो यस्याऽसौ संविग्नपक्षरुचिरिति, बहुशः क्रियाभिधानं शुद्धर्भेददर्शनार्थम्, तथाहि-यतेः साक्षाच्छुद्धिरन्यथेतरयोरिति ॥५१३॥ ते तर्हि संविग्नपक्षरुचयः कथं लक्ष्यन्त इत्याह
संविग्गपक्खियाणं, लक्खणमेयं समासओ भणियं ।
ओसन्नचरणकरणा, वि जेण कम्मं विसोर्हिति ॥५१४॥
'संविग्ग०' गाहा, संविग्नपक्षे मोक्षाभिलाषिसुसाधुवर्गे सुन्दरबुद्धिर्विद्यते येषां ते संविग्नपाक्षिकास्तेषाम्, लक्ष्यतेऽनेनेति लक्षणं पररूपव्यावर्त्तको धर्मः, तदेतद् वक्ष्यमाणं समासतः संक्षेपेण भणितमुक्तं गणधरादिभिः, अवसन्नचरणकरणा अपि स्वयं कर्मपरतन्त्रतया प्रमादिनोऽपि प्राणिनो येन लक्षणेन सता कर्म ज्ञानावरणादि विशोधयन्ति प्रतिक्षणं क्षालयन्तीति ॥५१४॥
30 Jain Education International
For Private & Personal Use Only
www.jainelibrary.org