________________
१८२ तत्र 'बहुवचनोद्देशेऽप्येकवचननिर्देशो भवतीति न्यायं दर्शयन् तदेव लक्षणमभिधित्सुराह
सुद्धं सुसाहुधम्मं, कहेइ निदइ य निययमायारं । सुतवस्सियाण पुरओ, होइ य सव्वोमराइणिओ ॥५१५॥
'सुद्धं' गाहा, स संविग्नपाक्षिकः, शुद्धं निष्कलङ्कं सुसाधुधर्मं यथोक्तकारि यत्याचारं कथयति लोकेभ्यः प्रतिपादयति, निन्दति च जुगुप्सते निज एव निजकस्तमात्मीयमाचारमनुष्ठानं, तथा सुतपस्विनां शोभनसाधूनां पुरतोऽग्रतः कथञ्चित् तन्मध्यापन्न इत्यर्थः । भवति च भवत्येव सर्वोत्तमरत्नाधिकोऽद्यदिनदीक्षितेभ्योऽप्यात्मानं न्यूनं विधत्त इत्यर्थः ॥५१५॥ तथा
वंदइ न य वंदावइ, किइकम्म कुणइ कारवइ नेव । अतट्ठा न वि दिक्खे, देइ सुसाहूण वोहेडं ।५१६॥
'वंदइ' गाहा वन्दते सुसाधून् स्वयं न च नैव वन्दयति तान्, न तद् वन्दनं, प्रतीच्छतीत्यर्थः, कृतिकर्मविश्रामणादिकं स्वयं करोति तेषां कारयत्यात्मनस्तान्न च नैव तथात्मार्थं स्वनिमित्तमुपस्थितमपि शिष्यं नापि नैव दीक्षयति प्रव्राजयति, किं तहि ? ददाति प्रयच्छति सुसाधुभ्यो बोधयित्वा धर्मदेशनयेति ॥५१६।। (उप०मा० गा०५१३-१६) 32/6
[139] त्यागमधिकृत्याहबान्धवधनेन्द्रियसुखत्यागात् त्यक्तभयविग्रहः साधुः । त्यक्तात्मा निर्ग्रन्थस्त्यक्ताहंकारममकारः ॥१७३॥
टीका-बान्धवाः-स्वजनकाः, धनं-हिरण्यसुवर्णादि, इन्द्रियाणि-स्पर्शनादीनि, तद्विषयं सुखम् । एषां त्यागादिन्द्रियसंबन्धिसुखत्यागः । प्राप्तेषु विषयेषु स्पर्शादिषु माध्यस्थ्यम् । त्यक्तभयविग्रहः साधुः भयमिहपरलोकादानादि ससविधम्, विग्रहः-- शरीरं तस्य त्यागो निष्प्रतिकर्मशरीरता, कलहः-द्वन्द्वादिविग्रहः । त्यक्तात्मा असंयमपरिणामलक्षण आत्मा । अष्टविधग्रन्थविजयप्रवृत्तो निर्ग्रन्थः । त्यक्ताहंकारममकार इति अरक्तद्विष्ट इत्यर्थः ॥१७३॥ ___अवचूर्णि:-बान्धवाः-स्वजनाः, धनं-हिरण्यादि, पञ्चेन्द्रियविषयसुखम्, एतेषां त्यागात् । भयमिहलोकादि सतविधम्, विग्रहः-शरीरं प्रतिकर्मणां त्यागात्साधुर्मुनिः त्यक्तात्मा-परिहतासंयमपरिणामः अष्टविधग्रन्थविजयप्रवृत्तः परिहृताभिमानममत्वभावोऽरक्तद्विष्टस्त्यागी ॥१७३॥ (प्रशम० गा० १७३) उपसंहार गा० 1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org