________________
१८० सर्ग-स्थित्युपसंहारान्, युगपद् व्यक्तशक्तितः । युगपच्च जगत् कुर्यात्, नो चेत् सोऽव्यक्तशक्तिकः ॥ . न व्यक्तशक्तिरीशोऽयम, क्रमेणाप्युपपद्यते । व्यक्तशक्तिरतोऽन्यश्चेत्, भावो ह्येकः कथं भवेत् ॥ ( )
एवं कालस्यापि पर्यायेण वसन्ताधभिव्यक्तिप्रवृत्तावयमेव दोषः । भावास्तु शीतोष्णादिपरिणतिभाजः प्रतिक्षणविशरारवः कथंचित् काल इत्यभिधानाभिधेयाः प्राग् व्यवस्थापिताः । अथ न क्रीडाद्यर्था भगवतः प्रवृत्तिः किन्तु पृथिव्यादिमहाभूतानां यथा स्वकार्येषु स्वभावत एव प्रवृत्तिः तथेश्वरस्यापीति, अयुक्तमेतत्, एवं हि तद्व्यापारमात्रभाविनामशेषभावानां युगपद् भावो भवेत् अविकलकारणत्वात् सहकार्यपेक्षापि न नित्यस्य संगता इत्युक्तम् । पुरुषवादिनां तु केवलस्यैव पुरुषस्य जगत्कारणत्वेनाभ्युपगमात्तदपेक्षा दुरापास्तैव । पृथिव्यादिमहाभूतानां तु स्वहेतुबलायाताऽपरापरस्वभावसद्भावान्न तदुत्पाद्यकार्यस्य युगपदुत्पत्त्यादिदोषः संभवी ।
न च यथोर्णनाभः स्वभावतः प्रवृत्तोऽपि न स्वकार्याणि युगपद् निर्वर्तयति तथा पुरुषोऽपीति वाच्यम्, यत ऊर्णनाभस्यापि प्राणिभक्षणलाम्पट्यात् स्वकार्ये प्रवृत्तिर्न स्वभावतः, अन्यथा तत्राप्यस्य दोषस्य समानत्वात् । न ह्यसौ नित्यैक स्वभावः अपि तु स्वहेतुबलभाव्यपरापरकादाचित्कशक्तिमानिति । तद्भाविनः कार्यस्य क्रमप्रवृत्तिरुपपन्नैव। न च यथा कथंचिदबुद्धिपूर्वकमेव पुरुषो जगन्निर्वर्तने प्रवर्तते प्राकृतपुरुषादप्येवमस्य हीनतया प्रेक्षापूर्वकारिणामनवधेयवचनताप्रसक्तेः । एवं प्रजापतिप्रभृतीनामपि जगत्कारणत्वेनाभीष्टानां निरासो द्रष्टव्यः न्यायस्य समानत्वात् । तन्न कालायेकान्ताः प्रमाणतः सम्भवन्तीति तद्वादो मिथ्यावाद इति स्थितम् । त एवान्योन्यसव्यपेक्षा नित्याद्येकान्तव्यपोहेनैकानेकस्वभावाः कार्यनिर्वर्तनपटवः प्रमाणविषयतया परमार्थसन्त इति तत्प्रतिपादकस्य शास्त्रस्यापि सम्यक्त्वमिति तद्वादः सम्यग्वादतया व्यवस्थितः ॥५३॥ (सन्म०कां०३, गा०५३) 32/4 [137] शुष्कवादो विवादश्च, धर्मवादस्तथापरः ।।
___इत्येष त्रिविधो वादः, कीर्तितः परमर्षिभिः ॥१॥
वृत्तिः- शुष्क इव शुष्को नीरसः, गलतालुशोषमात्रफल इत्यर्थः, स चासौ वादश्च कमपि विप्रतिपत्तिविषयमाश्रित्य प्रतिवादिना सह वदनं "शुष्कवादः" तथा विरूपो जयप्राप्तावपि परलोकादिबाधको वादः 'विवादः' 'चशब्द:-' उक्तसमुच्चये, तथा धर्मप्रधानो वादो 'धर्मवादः' 'तथा' तेनात्यन्तमाध्यस्थादिना धर्महेमकषादिपरीक्षालक्षणेन वा प्रकारेण, समुच्चयार्थो वा 'तथाशब्दः', 'पर:' प्रधानः, अपरो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org