________________
१७९ पुरुषत्वादिभिः पुरुषस्येष्टा । विशेषस्तु समवायाद्यपरकारणसव्यपेक्ष ईश्वरो जगद् निर्वर्त्तयति, अयं तु केवल एव ।
अस्य चेश्वरस्येव जगद्धेतुताऽसंगता । तथाहिपुरुषो जन्मिनां हेतुर्नोत्पत्तिविकलत्वतः । गगनाम्भोजवत् सर्वमन्यथा युगपद् भवेत् ॥ ( ) ।
किञ्च, प्रेक्षापूर्वकारिप्रवृत्तिः प्रयोजनवत्तया व्याप्तेति किं प्रयोजनमुद्दिश्याऽयं जगत्करणे प्रवर्तते ? नेश्वरादिप्रेरणात् अस्वातन्त्र्यप्रसक्तेः । न परानुग्रहार्थम् अनुकम्पया दुःखितसत्त्वनिवर्तनानुपपत्तेः । न तत्कर्मक्षयार्थं दुःखितसत्त्वनिर्माणे प्रवृत्तिः, तत्कर्मणोऽपि तत्कृतत्वेन तत्प्रक्षयार्थं तन्निर्माणप्रवृत्तावप्रेक्षापूर्वकारिताऽऽपत्तेः । न च प्राक् सृष्टेरनुकम्पनीयसत्त्वसद्भाव इति निरालम्बनाया अनुकम्पाया अयोगात् नाऽतोऽपि जगत्करणे प्रवृत्तिर्युक्ता । न चानुकम्पातः प्रवृत्तौ सुखिसत्त्वप्रक्षयार्थं प्रवृत्तिर्युक्तेति देवादीनां प्रलयानुपपत्तिर्भवेत् । न च समर्थस्य दुःखकारणमधर्मादिकमपेक्ष्य कृपालो१ःखितसत्त्वनिवर्त्तनं युक्तम् कृपापरतन्त्रतया दुःखप्रदे कर्मण्यावधा (? धी) रणोपपत्तेः । न हि कृपालवः परदुःखहेतुत्वमेवेच्छन्ति परदःखवियोगेच्छयैव तेषां सर्वदा प्रवृत्तेः । न च क्रीडयापि तत्र तस्य प्रवृत्तिर्युक्ता, क्रीडोत्पादेऽपि जगदुत्पादापेक्षया तस्याऽस्वातन्त्र्योपपत्तेः । जंगदुत्पत्ति-स्थितिप्रलयात्मकस्य विचित्रक्रीडोपायस्य तदुत्पत्तावपेक्षणात् । यदि विचित्रक्रीडोपायोत्पादने तस्य प्रागेव शक्तिः तदा युगपदशेषजगदुत्पत्ति-स्थिति-प्रलयान् विदध्यात् । अथादौ न तत्र शक्तिस्तदाऽशक्तावस्थाया अविशिष्टत्वात् क्रमेणापि न तान् विदध्यात् । एकत्रैकस्य शक्ताऽशक्तत्वलक्षणविरुद्धधर्मद्वयाऽयोगात् । अयं च दोष ईश्वरवादिनामपि समान इति ।
"परानुग्रहार्थमीश्वरः प्रवर्त्तते यथा कश्चित् कृतार्थो मुनिरात्महिताऽहितप्राप्ति परिहारार्थाऽसम्भवेऽपि परहितार्थमुपदेशादिकं करोति तथेश्वरोऽप्यात्मीयामैश्वर्यविभूति विख्याप्य प्राणिनोऽनुग्रहीष्यन् प्रवर्तत इति । अथवा शक्तिस्वाभाव्यात्, यथा कालस्य वसन्तादीनां पर्यायेणाभिव्यक्तौ स्थावर-जङ्गमविकारोत्पत्तिः स्वभावतः तथैवेश्वरस्याप्याविर्भावानुग्रहसंहारशक्तीनां पर्यायेणाभिव्यक्तौ प्राणिनामुत्पत्तिस्थितिप्रलयहेतुत्वम्" इति यदुक्तं प्रशस्तमतिना तदपि प्रतिक्षिप्तं द्रष्टव्यम् । तथाहि-यद्यसावनुग्रहप्रवृत्तस्तदा सर्वमेकान्तसुखिनं प्राणिगणं विदध्यात् इत्युक्तम् । शक्तिस्वाभाव्यात् करणे उत्पत्ति-स्थित्युपसंहारान् जगतो युगपत् कुर्यात् इत्यादिकमपि उक्तमेव दूषणम् । तथा चाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org