________________
१७८ यथा यथा पूर्वकृतस्य कर्मणः फलं निधानस्थमिवाऽवतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता प्रदीपहस्तेव मतिः प्रवर्तते ॥ () तथा चस्वकर्मणा युक्त एव, सर्वो ह्युत्पद्यते नरः । स तथाऽऽकृष्यते तेन, न यथा स्वयमिच्छति ॥ ()
तथाहि-समानमीहमानानां समानदेश-काल-कुलाऽऽकारादिमतामर्थप्राप्त्यप्राप्ती नाऽनिमित्ते युक्ते अनिमित्तस्य देशादिप्रतिनियमाऽयोगात् । न च परिदृश्यमानकारणप्रभवे, तस्य समानतयोपलम्भात् न चैकरूपात् कारणात् कार्यभेदः तस्याहेतुकत्वप्रसक्तेः अहेतुकत्वे च तस्य कार्यस्यापि तद्रूपतापत्तेः भेदाऽभेदव्यतिरिक्तस्य तस्यासत्त्वात् । ततो यन्निमित्ते एते तद् दृष्टकारणव्यतिरिक्तमदृष्टं कारणं कर्मेति ।
असदेतत्-कुलालादेर्घटादिकारणत्वेनाध्यक्षतः प्रतीयमानस्य परिहारेणाऽपराऽदृष्टकारणप्रकल्पनायां तत्परिहारेणापरापराऽदृष्टकारणकल्पनयाऽनवस्थाप्रसङ्गतः क्वचिदपि कारणप्रतिनियमानुपपत्तेः । न च स्वतन्त्रं कर्म जगद्वैचित्र्यकारणमुपपद्यते तस्य कर्बधीनत्वात् । न चैकस्वभावात् ततो जगद्वैचित्र्यमुपपत्तिमत् कारणवैचित्र्यमन्तरेण कार्यवैचित्र्यायोगात्, वैचित्र्ये वा तदेककार्यताप्रच्युतेः, अनेक-स्वभावत्वे च कर्मणो नाममात्रनिबन्धनैव विप्रतिपत्तिः, पुरुष-काल-स्वभावादेरपि जगद्वैचित्र्यकारणत्वेनाऽर्थतोऽभ्युपगमात्, न च तेन चेतनवताऽनधिष्ठितमचेतनत्वात् वास्यादिवत् कर्म प्रवर्तते । अथ तदधिष्ठायकः पुरुषोऽभ्युपगम्यते न तर्हि कमैकान्तवादः, पुरुषस्यापि तदधिष्ठायकत्वेन जगद्वैचित्र्यकारणत्वोपपत्तेः । न च केवलं किंचिद् वस्तु नित्यमनित्यं वा कार्यकृत् सम्भवतीत्यसकृत् प्रतिपादितम् । तन्न कर्मैकान्तवादोऽपि युक्तिसंगतः ।
[पुरुषैककारणवादमुपन्यस्य तस्यैकान्तिकत्वनिरास:] अन्यस्त्वाह-'पुरुष एवैकः सकललोकस्थिति-सर्ग-प्रलयहेतुः प्रलयेऽपि अलुप्तज्ञानातिशयशक्तिः इति । तथा चोक्तम्
ऊर्णनाभ इवांशूनाम्, चन्द्रकान्तः इवाऽम्भसाम् । प्ररोहाणामिव प्लक्षः, स हेतुः सर्वजन्मिनाम् ॥३॥
तथा, 'पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम्' ( ) इत्यादि । ऊर्णनाभोऽत्र मर्कटको व्याख्यातः । अत्र सकललोकस्थितिसर्ग-प्रलयहेतुतेश्वरस्येव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org