________________
१७३ [134] अपरिच्छिय सुयनिहसस्स, केवलमभिन्नसुत्तचारिस्स ।
___ सव्वुज्जमेण वि कयं, अन्नाणतवे बहुं पडइ ॥४१५॥
अपरि० गाहा-अपरिनिश्चितः-सम्यगपरिच्छिन्नः श्रुतनिकष-आगमसद्भावो येन स तथा तस्य, केवलमभिन्नमविवृत्तार्थं यत् सूत्रं विशिष्टव्याख्यानरहितं सूत्रमात्रमित्यर्थः, तेन चरितुं तदनुसारेणानुष्ठानं कर्तुं धर्मो यस्यासौ अभिन्नसूत्रचारी, तस्य सर्वोद्यमेनापि-समस्तयत्नेनापि कृतमनुष्ठानमज्ञानतपसि-पञ्चाग्निसेवनादिरूपे बहु पतति । स्वल्पमेवागमानुसारि भवति, विषयविभागज्ञानशून्यत्वात्, तथाहिसूत्रेषूक्तोऽप्यर्थो व्याख्यानतो विशेषोऽवस्थाप्यते, उत्सर्गसूत्राणामपवादसूत्रैविरोधाद्यदि पुनः सूत्रमात्रमेव कार्यकारि स्यात् तदानुयोगोऽनर्थकः स्यात् तथा चोक्तम्
जं जह सुत्ते भणियं, तं तह जइ तब्वियारणा नत्थि । .
किंकालियाणुओगो, दिट्ठो दिट्ठिप्पहाणेहिं ॥ इत्यादि (उप०मा० गा०४१५) 323
[135] ननु एवमन्यथा प्रतिपन्नमूलागमैकदेशगर्भपरतन्त्रे द्वेषः कार्यों न वेत्याशङ्कायामाह
तत्राऽपि च न द्वेषः कार्यों विषयस्तु यत्नतो मृग्यः । तस्यापि न सद्वचनं सर्वं यत्प्रवचनादन्यत् ॥१३॥
तन्नापीत्यादि । तत्रापि-तदेकदेशभूताऽऽगमान्तरेऽपि न द्वेषः कार्यः, तु-पुनः विषयो यत्नतो मृग्यः-तदर्थानुपपत्तिपरिहारो यत्नतः कर्तव्यः गुणग्रहरसिकानां परवचनानुपपत्तिपरिहारप्रवणस्वभावत्वात् । ननु वस्तुत उपपन्नार्थवचनस्यानुपपत्तिशङ्का परिहार्या, न तु सर्वथाऽनुपपन्नस्येति निर्विषयोऽयमुपदेश इत्यत आहतस्यापि आगमान्तरस्य सद्वचनं-शोभनं वचनं सर्वं यत्-यस्मात् प्रवचनात्-मूलागमात् अन्यत् न किन्तु तदनुपात्येव । तथा च तस्य मूलागमेनैकवाक्यतामापाद्योपपत्तिरेव कर्त्तव्या । इत्थमेव सम्यग्दृष्टिपरिगृहीतस्य मिथ्याश्रुतस्यापि सम्यक्श्रुतत्वसिद्धेः तदरुचिस्तु तत्त्वतो दृष्टिवादाऽरुचिपर्यवसायिनीति सुप्रसिद्धमुपदेशपदादौ ॥१३॥ (षोड०प्र०षो० १६ श्लो०१३) 32/3 [136] सदाद्येकान्तवादवत् कालाद्येकान्तवादेऽपि मिथ्यात्वमेवेत्याह
[कालैकान्तवादनिरसनम्] कालो सहाव णियइ पुवकयं पुरिसकारणेगंता । मिच्छतं ते चेव समासओ होति सम्मत्तं ॥५३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org