________________
१७२ वादस्य नयानामपि वैचित्र्यादन्यत्रारोपयितुमशक्यत्वात् तद्रूपस्यान्ये सम्यक्प्रत्यया भविष्यन्तीति वक्तव्यम्, यतः हंदि इत्येवं गृह्यताम् हुः इति हेतौ मूलनयद्वयपरिच्छिन्नवस्तुन्येव व्यापृतास्तेऽपि तद्विषयव्यतिरिक्तविषयान्तराभावात् सर्वनयवादानां च सामान्यविशेषोभयैकान्तविषयत्वात् । तन्न नयान्तरसद्भावः यतः तदारब्धोभयवादे नयान्तरं भवेत् ॥१५॥ (सन्म०कां०१, गा० १४-१५) 3212
[संग्रहादीनां मूलनयग्राह्यग्राहित्वान्नोभयवादप्रज्ञापकत्वमिति प्रदर्शनम्]
ननु संग्रहादिनयसद्भावात् कथं तद्व्यतिरिक्तनयान्तराभावः सत्यम्, सन्ति संग्रहादयः किन्तु तद्विषयव्यतिरिक्तविषयान्तराभावतस्तद्वितयविषयास्तेऽपि तद्रूषणेनैव दूषिताः यतो न मूलच्छेदे तच्छाखास्तदवस्थाः संभवन्तीत्याह
सव्वणयसमूहम्मि वि णत्थि णओ उभयवायपण्णवओ। मूलणयाण उ आणं, पत्तेय विसेसियं बिति ॥१६॥
संग्रहादिसकलनयसमूहेऽपि नास्ति कश्चिद् नय उभयवादप्ररूपकः, यतः मूलनयाभ्यामेव यत् प्रतिज्ञातं वस्तु तदेव आश्रित्य प्रत्येकरूपाः संग्रहादयः पूर्वपूर्वनयाधिगतांशविशिष्टमंशान्तरमधिगच्छन्तीति न विषयान्तरगोचराः । अतो व्यवस्थितं परस्परात्यागप्रवृत्तसामान्यविशेषविषयसंग्रहाद्यात्मकनयद्वयाधिगम्यात्मकत्वात् वस्त्वप्युभयात्मकम् ॥१६॥ (सन्म०कां०१, गा० १६) 3212
[133] सुत्तत्थो खलु पढमो, बीओ निज्जुत्ति-मीसओ भणिओ। तइओ य निरवसेसो, एस विही भणिअ अणुओगे ॥२४॥
व्याख्या-सूत्रस्यार्थः सूत्रार्थः, सूत्रार्थः एव केवल:-प्रतिपाद्यते यस्मिन्ननुयोगे असौ सूत्रार्थ इत्युच्यते, सूत्रार्थमात्रप्रतिपादनप्रधानोवा सूत्रार्थः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, एतदुक्तं भवति-गुरुणा सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोगः कार्यः, मा भूत प्राथमिकविनेयानां मतिसंमोहः, द्वितीयः अनुयोगः सूत्रस्पर्शिकनियुक्तिमिश्रकः कार्यः, इत्येवंभूतो भणितो जिनैश्चतुर्दशपूर्वधरैश्च तृतीयश्च निरवशेषः प्रसक्तानुप्रसक्तमप्युच्यते यस्मिन् स एवंलक्षणो निरवशेषः कार्य इति, स एष उक्तलक्षणो विधानं विधि:-प्रकार इत्यर्थः भणित:-प्रतिपादितः, जिनादिभिः क्व ? सूत्रस्य निजेन अभिधेयेन सार्धम् अनुकूलो योगः अनुयोगः सूत्रव्याख्यान मित्यर्थः । तस्मिन्ननुयोगेऽनुयोगविषय इति, अयं गाथार्थः ॥२४॥ आ०नि०गा० २४) 323
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org