________________
१७४ काल-स्वभाव-नियति-पूर्वकृत-पुरुषकारणरूपा एकान्ताः सर्वेऽपि एकका मिथ्यात्वम्, त एव समुदिताः परस्पराऽजहवृत्तयः सम्यक्त्वरूपतां प्रतिपद्यन्ते इति तात्पर्यार्थः ।
तत्र काल एवैकान्तेन जगतः कारणमिति कालवादिनः प्राहुः । तथाहिसर्वस्य शीतोष्णवर्ष-वनस्पति-पुरुषादेर्जगतः प्रभव-स्थिति-विनाशेषु ग्रहोपरागयुतियुद्धोदयास्तमयगतिगमनागमनादौ च कालः कारणम्, तमन्तरेण सर्वस्याऽस्याऽन्यकारणत्वाभिमतभावसद्भावेऽप्यभावात् तत्सद्भावे च भावात् । तदुक्तम्
कालः पचति भूतानि, कालः संहरति प्रजाः ।
कालः सुप्तेषु जागति, कालो हि दुरतिक्रमः ॥ (महाभा० आदिपर्व अ० १ श्लो० २७३)
असदेतत्-तत्कालसद्भावेऽपि वृष्ट्यादेः कदाचिद् दर्शनात् । न च तदभवनमपि तद्विशेषकृतमेव नित्यैकरूपतया तस्य विशेषाभावात् । विशेष वा तज्जननाऽजननस्वभावतया तस्य नित्यत्वव्यतिक्रमात स्वभावभेदाद भेदसिद्धेः । न च ग्रहमण्डलादिकृतो वर्षादेविशेषः, तस्यापि अहेतुकतयाऽभावात्न च काल एव तस्य हेतुः, इतरेतराश्रयदोषप्रसक्ते:-सति कालभेदे वर्षादिभेदहेतोर्ग्रहमण्डलादेर्भेदः तद्भेदाच्च कालभेद इति परिस्फुटमितरेतराश्रयत्वम् । अन्यतः कारणाद् वर्षादिभेदे न काल एव एकः कारणं भवेद्-इत्यभ्युपगमविरोधः । कालस्य च कुतश्चिद् भेदाभ्युपगमे अनित्यत्वमित्युक्तम् । तत्र च प्रभव-स्थिति-विनाशेषु यद्यपरः कालः कारणम्, तदा तत्रापि स एव पर्यनुयोग इत्यनवस्थानान्न वर्षादिकार्योत्पत्ति: स्यात् । न चैकस्य कारणत्वं युक्तम्, क्रम-यौगपद्याभ्यां तद्विरोधात् । तन्न काल एव एकः कारणं जगतः ।
____ (स्वभावैककारणवादमुपन्यस्य तस्यैकान्तिकत्वनिरासः ।)
अपरे तु-स्वभावत एव भावा जायन्ते' इति वर्णयन्ति । अत्र यदि "स्वभावकारणा भावाः' इति तेषामभ्युपगमस्तदा स्वात्मनि क्रियाविरोधो दोषः । न ह्यनुत्पन्नानां तेषां स्वभावः समस्ति । उत्पन्नानां तु स्वभावसंगतावपि प्राक् स्वभावाऽभावेऽपि उत्पत्तेनिर्वृत्तत्वाद् न स्वभावस्तत्र कारणं भवेत् । अथ 'कारणमन्तरेण भावा भवन्ति स्व-परकारणनिमित्तजन्मनिरपेक्षतया सर्वहेतुनिराशंसस्वभावाः भावाः । तथा चात्र स्वभाववादिभिर्युक्तिः प्रदर्श्यते यदनुपलभ्यमानसत्ताकं तत् प्रेक्षावतामसद्व्यवहारविषयः यथा शशशृङ्गम्, अनुपलभ्यमानसत्ताकं च भावानां कारणमिति स्वभावानुपलब्धिः । न चायमसिद्धो हेतुः कण्टकादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org