________________
१३२ करणे सूत्रक्रियाविनाशात्परमार्थतस्तीर्थविनाश एवेति तीर्थोच्छेदालम्बनेनाविधिस्थापने लाभमिच्छतो मूलक्षतिरायातेत्यर्थः ॥१४॥ [यो०वि०गा० १४] 27/8
सूत्रक्रियाविनाशस्यैवाहितावहतां स्पष्टयन्नाहसो एस वंकओ चिय, न य सयमयमारियाणमविसेसो। एयं पि भावियव्वं, इह तित्थुच्छेयभीरूहि ॥१५॥
'सो एस' त्ति । ‘स एष' सूत्रक्रियाविनाशः 'वक्र एव' तीर्थोच्छेदपर्यवसायितया दुरन्तदुःखफल एव । ननु शुद्धक्रियाया एव पक्षपाते क्रियमाणे शुद्धायास्तस्या अलाभादशुद्धायाश्चानङ्गीकारादानुश्रोतसिक्या वृत्त्याऽक्रियापरिणामस्य स्वत उपनिपातात्तीर्थोच्छेदः स्यादेव, यथाकथञ्चिदनुष्ठानावलम्बने च जैनक्रियाविशिष्टजनसमुदायरूपं तीर्थं न व्यवच्छिद्यते, न च कर्तुरविधिक्रियया गुरोरुपदेशकस्य कश्चिद्दोषः, अक्रियाकर्तुस्तस्य स्वपरिणामाधीनप्रवृत्तिकत्वात्, केवलं क्रियाप्रवर्तनेन गुरुस्तीर्थव्यवहाररक्षणाद् गुण एवेत्याशङ्कायामाह-'न च स्वयं मृतमारितयोरविशेषः, किन्तु विशेष एव' स्वयं मृते स्वदुष्टाशयस्यानिमित्तत्त्वात्, मारिते च मार्यमाणकर्मविपाकसमुपनिपातेऽपि स्वदुष्टाशयस्य निमित्तत्वात्, तद्वदिह स्वयमक्रियाप्रवृत्तं जीवमपेक्ष्य गुरोर्न दूषणम्, तदीयाविधिप्ररूपणमवलम्ब्य श्रोतुरविधिप्रवृत्तौ च तस्योन्मार्गप्रवर्तनपरिणामादवश्यं महादूषणमेव । तथा च श्रुतिकेवलिनो वचनम् 'जह सरणमुवगयाणं, जीवाण सिरो निकिंतए जो उ । एवं आयरिओ वि हु, उस्सुत्तं पण्णवेंतो य ।। [उपदेशमाला-५१८] । न केवलमविधिप्ररूपणे दोषः, किन्त्वविधिप्ररूपणाभोगेऽ (?प्य) विधिनिषेधासम्भवात् तदाशंसनानुमोदनापत्तेः फलतस्तत्प्रवर्तकत्वाद दोष एव । तस्मात् "स्वयमेतेऽविधिप्रवृत्ता नात्रास्माकं दोषो, वयं हि क्रियामेवोपदिशामो न त्वविधिम्" एतावन्मात्रमपुष्टालम्बनमवलम्ब्य नोदासितव्यं परहितनिरतेन धर्माचार्येण किन्तु सर्वोद्यमेनाविधिनिषेधेन विधावेव श्रोतारः प्रवर्तनीयाः, एवं हि ते मार्गे प्रवेशिताः, अन्यथा तून्मार्गप्रवेशनेन नाशिताः । एतदपि भावयितव्यमिह तीर्थोच्छेदभीरुभिः विधिव्यवस्थापनेनैव ह्येकस्यापि जीवस्य सम्यग्बोधिलाभे चतुर्दशरज्ज्वात्मकलोकेऽमारिपटहवादनात्तीर्थोन्नतिः, अविधिस्थापने च विपर्ययात्तीर्थोच्छेद एवेति । यस्तु श्रोता विधिशास्त्रश्रवणकालेऽपि न संवेगभागी तस्य धर्मश्रावणेऽपि महादोष एव, तथा चोक्तं ग्रन्थकृतैव षोडशके-'यः श्रृण्वन् सिद्धान्तम्, विषयपिपासातिरेकतः पापः । प्राप्नोति न संवेगम, तदापि यः सोऽचिकित्स्य इति ॥१॥. नैवंविधस्य शस्तम्, मण्डल्युपवेशनप्रदानमपि । कुर्वन्नेतद् गुरुरपि, तदधिकदोषो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org