________________
१३१
वचनाऽसङ्गानुष्ठानयोर्विशेषमाह
चक्रभ्रमणं दण्डात्तदभावे चैव यत्परं भवति । वचनासङ्गानुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ॥१०/८॥
'चक्रे 'त्यादि । चक्रभ्रमणं- कुम्भकारचक्रपरावर्त्तनं दण्डात् - दण्डसंयोगात् तदभावे चैव यत् परम्-अन्यत् भवति, वचनासङ्गानुष्ठानयोः - प्रस्तुतयोः तु-तदेव ज्ञापकं - उदाहरणं ज्ञेयम् । यथा चक्रभ्रमणमेकं दण्डसंयोगात्प्रयत्नपूर्वकाद् भवति एवं वचनानुष्ठानमप्यागमसंयोगात् प्रवर्तते । यथा चान्यच्चक्रभ्रमणं दण्डसंयोगाभावे केवलादेव संस्काराऽपरिक्षयात् सम्भवति एवमागमसंस्कारमात्रेण वस्तुतो वचननिरपेक्षमेव स्वाभाविकत्वेन यत्प्रवर्तते तदसङ्गानुष्ठानमितीयान् भेद इति भावः
॥१०/८||
एषामेव चतुर्णामनुष्ठानानां फलविभागमाह
अभ्युदयफले चाऽऽद्ये, निःश्रेयससाधने तथा चरमे । एतदनुष्ठानानाम्, विज्ञेये इह गतापाये ॥१०९ ॥
अभ्युदयेत्यादि अभ्युदयः - स्वर्गः तत्फले एव आद्ये- प्रीतिभक्त्यनुष्ठाने । निःश्रेयसं-मोक्षः तत्साधने तथा चरमे - वचनासङ्गानुष्ठाने । एतेषामनुष्ठानानां मध्ये विज्ञेये इह-प्रक्रमे, गतापाये - विघ्नरहिते अत एव पूर्वसंयमः स्वर्गहेतुः अपूर्वसंयमश्च मोक्षहेतुरिति सिद्धान्तनयः || १० | ९ || ( षोड० प्र० षो०१०, श्लो०३... ९)
27/7
[120] नन्वविधिनाऽपि चैत्यवन्दनाद्यनुष्ठाने तीर्थप्रवृत्तिरव्यवच्छिन्ना स्यात्, विधेरेवान्वेषणे तु द्वित्राणामेव विधिपराणां लाभात् क्रमेण तीर्थोच्छेदः स्यादिति तदनुच्छेदायाविध्यनुष्ठानमप्यादरणीयमित्याशङ्कायामाह -
तित्थस्सुच्छेयाइ वि, नालंबणमित्थ जं स एमेव । सुत्तकिरियाइ नासो, एसो असमंजसविहाणा ॥१४॥
तित्थस्स इत्यादि । 'अत्र' अविध्यनुष्ठाने 'तीर्थोच्छेदाद्यपि नालम्बनं - ' तीर्थानुच्छेदायाविध्यनुष्ठानमपि कर्तव्यमिति नालम्बनीयम् । 'यद्' - यस्मात् 'एवमेव' अविध्यनुष्ठाने क्रियमाण एव 'असमञ्जसविधानात् ' -विहितान्यथाकरणादशुद्धपारम्पर्यप्रवृत्त्या सूत्रक्रियाया विनाशः 'स' एष तीर्थोच्छेदः । न हि तीर्थनाम्ना जनसमुदाय एव तीर्थम्, आज्ञारहितस्य तस्यास्थिसंघातरूपत्वप्रतिपादनात्, किन्तु सूत्रविहितयथोचितक्रियाविशिष्टसाधुसाध्वी श्रावक श्राविकासमुदायः । तथा चाविधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org