________________
१३० बुद्धिमतः-विशेषग्राहिधीशालिनः यदनुष्ठानं विशुद्धतरयोगं-परिशुद्धतरव्यापारं क्रियया-बाह्यकारणेन इतरतुल्यमपि-प्रीत्यनुष्ठानतुल्यमपि ज्ञेयं तत्-एवंविधं भक्त्यनुष्ठानम् ॥१०/४॥ कः पुनः प्रीतिभक्त्योर्विशेष: ? उच्यते
अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति ।
तुल्यमपि कृत्यमनोतिं स्यात् प्रीति-भक्तिगतम् ॥१०५॥ अत्यन्तेत्यादि । अत्यन्तवल्लभा खलु-अत्यन्तप्रियैव पत्नी-भार्या, तद्वत्पत्नीवद् अत्यन्तेष्टैव हिता च- हितकारिणी इति कृत्वा जननी-माता तुल्यमपिसदृशमपि कृत्यं-भोजनाच्छादनादि, अनयोः-जननीपत्न्योः ज्ञातम्-उदाहरणं स्यात् प्रीतिभक्तिगतम्-प्रीतिभक्तिविषयम् । प्रीत्या पत्न्याः क्रियते भक्त्या मातुरितीयान् विशेष इति भावः । प्रीतित्व-भक्तित्वे क्रियागुणमानोरथिकहर्षगतौ जातिविशेषाविति तर्कानुसारिणः ॥१०/५॥ तृतीयमाह→
वचनात्मिका प्रवृत्तिः, सर्वत्रौचित्ययोगतो या तु ।
वचनानुष्ठानमिदम्, चारित्रवतो नियोगेन ॥१०/६॥ -'वचने'त्यादि । वचनात्मिका-आगमार्थानुस्मरणाऽविनाभाविनी प्रवृत्तिःक्रियारूपा सर्वत्र-सर्वस्मिन् धर्मव्यापारे क्षान्तिप्रत्युपेक्षादौ औचित्ययोगतः-देशकाल-पुरुष-व्यवहाराद्यानुकूल्येन या तु भवति, इदम्-एवं प्रवृत्तिरूपं वचनानुष्ठानं चारित्रवतः-साधोः नियोगेन-नियमेन भवति, तस्यैव भवदुर्गलङ्घनं षष्ठगुणस्थानाऽवाप्तेस्तत्र च लोकसंज्ञाऽभावात्, नान्यस्य, विपर्ययात् । निश्चयनयमतमेतत् । व्यवहारतस्त्वन्यस्यापि मार्गानुसारिणो वचने प्रवर्त्तमानस्य देशत इदं भवत्येवेति द्रष्टव्यम् ॥१०/६।। तुर्यस्वरूपमाह→
यत्त्वभ्यासातिशयात्, सात्मीभूतमिव चेष्टयते सद्भिः ।
तदसङ्गनुष्ठानं, भवति त्वेतत्तदावेधात् ॥१०/७॥ 'यत्त्वित्यादि । यत्तु-यत्पुनः अभ्यासातिशयात्-भूयो भूयः तदासेवनेन संस्कारविशेषात्, सात्मीभूतमिव-चन्दनगन्धन्यायेनाऽऽत्मसाद्भूतमिव चेष्ट्यतेक्रियते सद्भिः-सत्पुरुषैः जिनकल्पिकादिभिः तत्-एवंविधम् असङ्गानुष्ठानम् । भवति तु एतत्-जायते पुनरेतत् तदावेधात्-प्राथमिकवचनसंस्कारात् ॥१०/७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org