________________
१२९
ध्यानानालम्बनत्वात् क्षपकश्रेणिकालसम्भविविशिष्टतरयोगप्रयत्नामावादावर्जी
करणोत्तरयोगनिरोधप्रयत्नाभावाच्चार्वाक्तनकेवलिव्यापारस्य ध्यानरूपत्वाभावादुक्तान्यतरयोगपरिणतेरेव ध्यानलक्षणत्वात् । आह च महाभाष्यकार :
'सुदड्डप्पयत्तवावारणं णिरोहो व विज्जमाणाणं । झाणं करणाण मयं ण उ चित्तणिरोहमित्तागं ॥१॥ . ' ( विशेषावश्यक - गाथा ३०७१ ) इति । स्यादेतद्, यदि क्षपकश्रेणिद्वितीयापूर्वकरणभावी सामर्थ्ययोग एवानालम्बनयोगो ग्रन्थकृताऽभिहितस्तदा तदप्राप्तिमतामप्रमत्तगुणस्थानानामुपरतसकलविकल्पकल्लोलमालानां चिन्मात्रप्रतिबन्धोपलब्धरत्नत्रयसाम्राज्यानां जिनकल्पिकादीनामपि निरालम्बनध्यानमसङ्गताभिधानं स्यादिति । मैवम् - यद्यपि तत्त्वतः परतत्त्वलक्ष्यवेधाभिमुखस्तदविसंवादी सामर्थ्ययोग एव निरालम्बनस्तथापि परतत्त्वलक्ष्यवेधप्रगुणतापरिणतिमात्रादर्वाक्तनं परमात्मगुणध्यानमपि मुख्यनिरालम्बनप्रापकत्वादेकध्येयाकारपरिणतिशक्तियोगाच्च निरालम्बनमेव । अत एवावस्थात्रयभावने रूपातीतसिद्धगुणप्रणिधानवेलायामप्रमत्तानां शुक्लध्यानांशो निरालम्बनोऽनुभवसिद्ध एव । संसार्यात्मनोऽपि च व्यवहारनयसिद्धमौपाधिकं रूपमाच्छाद्य शुद्धनिश्चयनयपरिकल्पितसहजात्मगुणविभावने निरालम्बनध्यानं दुरपह्नवमेव, परमात्मतुल्यतयाऽऽत्मज्ञानस्यैव निरालम्बनध्यानांशत्वात्, तस्यैव च मोहनाशकत्वात् । आह च - " जो जाणइ अरिहंते, दव्वत्तगुणत्तपज्जवत्तेहिं । सो जाणइ अप्पाणं, मोहो खलु जाइ तस्स लयं ॥ प्र० सा० १-८०॥” इति । तस्माद्रूपिद्रव्यविषयं ध्यानं सालम्बनम्, अरूपिविषयं च निरालम्बनमिति स्थितम् ||१९|| ( यो०वि०गा०१९) 27/6
[119] तत्राद्यस्वरूपमाह
यत्राऽऽदरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम् ॥१०/३॥ यत्रेत्यादि । यत्र - - अनुष्ठाने, आदर:- प्रयत्नातिशयोऽस्ति, प्रीतिश्च अभिरुचिरूपा, हित उदयो यस्याः सा तथा भवति कर्तुः - अनुष्ठातुः शेषाणां प्रयोजनानां त्यागेन च तत्काले यच्च करोति तदेकमात्रनिष्ठतया तत्प्रीत्यनुष्ठानं ज्ञेयम् ||१० / ३|| द्वितीयमाह
Jain Education International
-
गौरवविशेषयोगाद्, बुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ॥१०/४॥
गौरवेत्यादि-गौरवं-गुरुत्वं - पूज्यत्वं तस्य विशेषयोगः-अधिकसम्बन्धः ततः
For Private & Personal Use Only
www.jainelibrary.org