________________
१३३
ऽवगन्तव्यः ॥२॥ (षो० १० श्लो० १४-१५) मण्डल्युपवेशनं सिद्धान्तदानेऽर्थमण्डल्युपवेशनम् । 'तदधिकदोषः' अयोग्यश्रोतुरधिकदोषः, पापकर्तुरपेक्षया तत्कारयितुर्महादोषत्वात् । तस्माद्विधिश्रवणरसिकं श्रोतारमुद्दिश्य विधिप्रापणेनैव गुरुस्तीर्थव्यवस्थापको भवति, विधिप्रवृत्त्यैव च तीर्थमव्यवच्छिन्नं भवतीति सिद्धम् ।।१५।। (यो०वि०मा० १५) 2718
ननु किमेतावद्गूढार्थगवेषणया ? यद्बहुभिर्जनैः क्रियते तदेव कर्तव्यम्, 'महाजनो येन गतः स पन्थाः' इति वचनात्, जीतव्यवहारस्यैवेदानी बाहुल्येन प्रवृत्तेस्तस्यैवाऽऽतीर्थकालभावित्वेन तीर्थव्यवस्थापकत्वादित्याशङ्कायामाह
मुत्तूण लोगसन्नं, उड्डण य साहुसमयसब्भावं । सम्मं पयट्टियव्वं, बुहेणमइनिउणबुद्धीए ॥१६॥
'मुत्तूण'त्ति । मुक्त्वा ('लोकसंज्ञां'-) 'लोक एव प्रमाणं' इत्येवंरूपां शास्त्रनिरपेक्षां मति 'उड्ढूण य' त्ति-वोड्ढ्वा च 'साधुसमयसद्भावं-समीचीनसिद्धान्तरहस्यं 'सम्यग्'-विधिनीत्या प्रवर्तितव्यं चैत्यवन्दनादौ 'बुधेन'-पण्डितेन 'अतिनिपुणबुद्ध्या' -अतिशयितसूक्ष्मभावानुधाविन्या मत्या । साधुसमयसद्भावश्चायम्-'लोकमालम्ब्य कर्तव्यम्, कृतं बहुभिरेव चेत् । तदा मिथ्यादृशां धर्मो, न त्याज्य: स्यात्कदाचन ॥४॥ (ज्ञानसारे २३-४), स्तोका आर्या अनार्येभ्यः, स्तोका जैनाश्च तेष्वपि । सुश्राद्धास्तेष्वपि स्तोकाः, स्तोकास्तेष्वपि सत्क्रियाः ॥२॥ श्रेयोऽर्थिनो हि भूयांसो, लोके लोकोत्तरे च न । स्तोका हि रत्नवणिजः, स्तोकाश्च स्वात्मशोधकाः ॥३॥ (ज्ञानसारे २३-५) एकोऽपि शास्त्रनीत्या यो, वर्तते स महाजनः । किमज्ञसाथैः शतमप्यन्धानां नैव पश्यति ॥४॥ यत्संविग्नजनाचीर्णम्, श्रुतवाक्यैरबाधितम् । तज्जीतं व्यवहाराख्यम्, पारम्पर्यविशुद्धिमत् ॥५॥ यदाचीर्णमसंविग्नैः, श्रुतार्थानवलम्बिभिः । न जीतं व्यवहारस्तदन्धसंततिसम्भवम् ॥६।। आकल्पव्यवहारार्थम्, श्रुतं न व्यवहारकम् । इतिवक्तुमहत्तन्त्रे, प्रायश्चित्तं प्रदर्शितम् ॥७॥ तस्माच्छ्रतानुसारेण, विध्येकरसिकैर्जनैः । संविग्नजीतमालम्ब्यमित्याज्ञा पारमेश्वरी ॥८॥"
ननु यद्येवं सर्वादरेण विधिपक्षपातः क्रियते तदा-'अविहिकया वरमकयं, असूयवयणं भणंति सव्वन्नू । पायच्छित्तं जम्हा, अकए गुरुयं कए लहुअं ॥१॥ इत्यादि वचनानां का गतिः ? इति चेत्, नैतानि वचनानि मूलत एवाविधिप्रवृत्तिविधायकानि, किन्तु विधिप्रवृत्तावप्यनाभोगादिनाऽविधिदोषश्छद्मस्थस्य भवतीति तद्भिया न क्रियात्यागो विधेयः प्रथमाभ्यासे तथाविधज्ञानाभावादन्यदपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org