________________
१२१
[104] केवलमधिगम्य विभुः स्वयमेव ज्ञानदर्शनमनन्तम् ।
लोकहिताय कृतार्थोऽपि देशयामास तीर्थमिदम् ॥१८॥ केवलमित्यादि । केवलममिश्रमसाधारणमधिगम्य-प्राप्य विभवतीति विभुःसर्वगतज्ञानात्मेत्यर्थः । स्वयमेव स्वशक्त्यैव, न राजेव सामन्तादिमिश्रः । किं तत्, केवलं ज्ञानं दर्शनं च वक्ष्यमाणम्, अनन्तं न कवचित् प्रतिहतं सर्वत्र गमत एव विभुरित्युक्तम् ॥१८॥ (त०का गा०१८) 243 - [105] वचनस्यैव माहात्म्यमभिष्टौति च
अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति ।
हृदयस्थिते च तस्मिन्नियमात्सर्वार्थसंसिद्धिः ॥२॥१४॥ अस्मिनित्यादि अस्मिनन्वचने हृदयस्थे सति हृदयस्थः स्मृतिद्वारा तत्त्वतो मुनीन्द्रः, स्वतन्त्रवक्तृत्वरूपतत्सम्बन्धशालित्वात, इतिः पादसमाप्तौ । हृदयस्थिते च तस्मिन्-मुनीन्द्रे नियमात्-निश्चयेन सर्वार्थसंपत्तिः भवति ॥२॥१४॥ (षोड०२, श्लो०१४) 24/4 [106] अथागमस्यैव प्राधान्यं प्रकटयन्नाह
आगमं आयरंतेणं, अत्तणो हियकंखिणा ।
तित्थनाहो गुरू धम्मो, सव्वे ते बहुमत्रिया ॥३५॥ व्याख्या-'आत्मनः'-स्वस्य 'हितकाङ्क्षिणा'-हितकामिना । 'आगमं'अर्हत्प्रणीतसिद्धान्तोक्तमाचारम् 'आचरता'-अभ्युपगच्छता जनेन 'तीर्थनाथः'-अर्हन 'गुरु:'-धर्माचार्यः धर्मश्च, ते सर्वे 'बहुमानिताः' गौरविताः । अयं भावःआत्महितैषिणा येन श्रीसिद्धान्तो बहुमानितस्तदुक्तं सर्वमप्यङ्गीकृतमित्यर्थः, न तु जमाल्यादिवत्सिद्धान्तैकदेशोऽप्यप्रमाणितोऽस्तीति तेनार्हद्गुरुधर्मा बहुमानिता एव । यश्चागमपदमेकमपि नाङ्गीकरोति स निह्नवपङ्क्तौ सम्यक्त्वविकलो गण्यते"पयमवि असद्दहंतो सुत्तुत्तं मिच्छदिट्ठीओ" इतिवचनात् ॥२७॥ (सं०स० गा०३५) 24/4 [107] जति वि ण विणस्सति च्चिय देहो झाणं तु नियमतो चलति ।
सीतादिपरिगयस्सिह तम्हा लयणं व तं गज्झं ॥१०२८॥ यद्यपि न विनश्यति देहस्तथापि ध्यानं शीतादिपरिगतस्येह नियमतश्चलत्येव, चियशब्द एवकारार्थो भिन्नक्रमश्च, स च यथास्थानं योजितस्तस्माल्लयनमिव तत्वस्त्रमुपकारित्वादवश्यं ग्राह्यमिति ॥१०२८॥ स्यादेतत्, यदि शीतादिवेदनाभि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org