________________
१२२
रत्यन्तमभिभूतस्य तस्य मरणमुपढौकते तर्हि तदपि सफलमेव, मरणपर्यवसानं हि जीवितम्, ततोऽवश्यमेव कदाचिन्मर्त्तव्यं तद्यद्यधुना धर्ममाचरतो मरणं भविष्यति किमयुक्तं स्यादित्यत आह
सुझाणस्स उ नासे मरणंपि न सोहणं जिणा बेंति । अन्नाणिची ( वी )रचरियं बालाणं विम्हयं कुणति ॥ १०२९ ॥
शीतादिवेदनापरिगतस्य हि नियमतः शुभध्यानविघातसंभव इत्युक्तम्, ततः शुभध्यानस्य विनाशे सति मरणमपि न शोभनं जिना ब्रुवते, आर्त्तध्यानादिसंभवेन तिर्यग्योन्यादिषूपपातसंभवात् । यत्पुनरुक्तं - मरणपर्यवसानं हि जीवितमित्यादि तदयुक्तमेव, अज्ञानिची (वी) रचरितं हि बालानामेव - अज्ञानामेव विस्मयं करोति न तु गुरु पारंपर्यागतागमोपनिषद्वेदिनाम्, इह परलोके वा तस्य भावतो दुःखनिबन्धनत्वादिति ||१०२९ ॥ ( धर्मसं० गा०१०२८-२९) 25/7
[108] तदित्थमुपसंपन्नस्य परस्य वचनमाशङ्क्योपसंहारपूर्वकं ग्रन्थाऽग्रन्थविभागमुपदिदर्शयिषुराह
तम्हा किमत्थि वत्थं, गंथोऽगंथो व सव्वहा लोए । गंथोऽगंथो व मओ, मुच्छममुच्छाहिं निच्छयओ ॥२५७३ ॥
वत्थाई तेण जं जं, संजमसाहणमरागदोसस्स ।
तं तमपरिग्गहोच्चिय, परिग्गहो जं तदुवघाइ ॥ २५७४ ॥ व्याख्या- तस्मात् किं नाम तद् वस्त्वस्ति लोके यदात्मस्वरूपेण सर्वथा ग्रन्थोऽग्रन्थो वा ? नास्त्येवैतदित्यर्थः । ततश्च 'मुच्छा परिग्गहो वुत्तो इइ वुत्तं महेसिणा' इत्यादिवचनात् यत्र वस्त्र - देहाहार- कनकादौ मूर्च्छा संपद्यते तद् निश्चयतः परमार्थतो ग्रन्थः । यत्र तु सा नोपजायते तदग्रन्थ इति । एतदेव व्यक्तीकरोति'वत्थाइं तेणेत्यादि' तेन तस्मात् । शेषं सुगममिति ॥ २५७३, २५७४ ।। (विशेषा० भा० गा० २५७३-७४ ) 25/8
[109] स्पर्शस्य लक्षणं फलातिशयञ्चाह
--
स्पर्शस्तत्तत्त्वाप्तिः संवेदनमात्रमविदितं त्वन्यत् ।
वन्ध्यमपि स्यादेतत्स्पर्शस्त्वक्षेपतत्फलदः ॥ १५ ॥
स्पर्श इत्यादि । तस्य - विवक्षितस्य वस्तुनः तत्त्वम् - अनारोपितं रूपं तस्य आप्तिः-उपलम्भः स्पर्शः स्पृश्यतेऽनेन वस्तुतत्त्वमिति निरुक्तेः । अन्यत्तु अविदितं - कथञ्चिद्वस्तुग्राहित्वेऽपि प्रमाणपरिच्छेद्यसम्पूर्णार्थाऽग्राहित्वेनाऽनिश्चितं संवेदनमात्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org