________________
१२०
(व्या०) न भवतीत्यादि । श्रोता हि कदाचिदन्यमनस्को दुष्टान्तरात्मा वा शृणुयाद् एवंविधस्य श्रोतुर्न हितश्रवणमात्रादेवैकान्तेन धर्मोऽस्तीति दर्शयति । हितग्रहणमामेडनार्थं, हितमपि तावत् शृण्वतां न सर्वेषां धर्मः किं पुनरहितमिति । ब्रुवत इत्यादि, वक्ता हि यदा स्तुतिमानलाभादिनिरीहः कथममी श्रोतारोऽनुगृहीताः प्रतिबुध्येरन्नित्यवाप्तबुद्धिर्हितमुपदिशति तदाऽस्यैकान्ततो भवति धर्मः एवं च कृत्वा स्वपरिणामो नः प्रवचनेषु शुभाशुभोपचयं प्रति परं प्रमाणमिति दर्शितम् । न चात्रात्मनेपदाशङ्का, निराकृतं हि स्तुत्यादिक्रियाफलं, निरनुबन्धाभिप्रायात्, न च धर्मोऽप्यभिप्रेतः, अवश्यंभावी त्वसावित्युक्तः ॥२९॥
एवं निश्चित्याहश्रममविचिन्त्यात्मगतम्, तस्माच्छ्रेयः सदोपदेष्टव्यम् । आत्मानं च परं च हि, हितोपदेष्टाऽनुगृह्णाति ॥३०॥ [आर्या]
(व्या०) श्रममित्यादि । यो हृदयशोषादिरात्मगतः श्रमस्तमविगणय्य-नैतन्मम दुःखमिहैव चैतत्सूपयुक्त शरीरमिति परिचिन्त्योपदेष्टव्यम्, तस्मादिति प्रक्रान्तप्रयोजनमुपसंहृत्य निश्चिनोति, अयं विनिश्चयो यदुत श्रेयो मोक्षमार्गः सर्वकालमुपदेष्टव्यः, न पुनरश्रेयः सावधमिथ्या श्रुतमात्मपरोपघातीति । इदं च पुनः श्रेयस उपदेशप्रयोजनं निर्धार्य आह, आत्मानमित्यादि, उदयं श्रुत्वा पापेभ्यो निवृत्त्य हितेषु प्रवर्तमानः कल्याणभागी भवति स तत्रोपदेष्टा हेतुरित्युभावपि हितोपदेशेनानुगृह्येते इति ॥३०॥ [103] शासनसामर्थ्येन तु, संत्राणबलेन चानवद्येन ।
युक्तं यत्तच्छास्त्रम्, तच्चैतत्सर्वविद्वचनम् ॥ १८८ ॥ शासनसामर्थ्येनानुशासनसमर्थमिदं-द्वादशाङ्ग प्रवचनमतस्तेन शासनसामर्थ्येन संसारस्वभावमनुवदता तद्विपरीतं च मोक्षमार्ग दर्शयता निराबाधं परिरक्षता च शरणागतान् प्राणिनोऽनवद्येनोपायेन कश्चित् परिरक्षत्यन्यानुपघ्नन्न तथेदं शासनं कस्यचिदुपघातकं युक्तमिदं प्रतिबद्धम् । यतः शास्त्रमुक्तेनार्थद्वयेन तच्चैतच्छास्त्रं सर्वविद:-सर्वज्ञस्य वचनमन्वर्थद्वारेण क्षीणाशेषरागद्वेषमोहस्य नान्यस्येति ॥ १८८ ॥
अव० शासनस्य शिक्षणस्य सामर्थ्य बलिष्ठतानेन संत्राणस्य पालनस्य बलेन च उभयेन सहितं यत्तच्छास्त्रमुच्यते सिद्धान्तः संसारभावमनुवदतां मोक्षं दर्शयतां सर्वविदामेतद् वचनम् ॥ १८८ ॥ (प्रशम० गा०१८८) 24/3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org