________________
इत्यवधारणे तु स्याद्वादाश्रयणात् सम्यग्दृष्टित्वप्राप्तेः । तस्मात् सदसतोर्विशेषाभावादुन्मत्तकस्येव मिथ्यादृष्टेर्बोधोऽज्ञानम् । तथा विपर्यस्तत्वादेव भवहेतुत्वात् तद्बोधोऽज्ञानम् । तथा पशुवधतिलादिदहनजलाधवगाहनादिषु संसारहेतुषु मोक्षहेतुत्वबुद्धेः, दया-प्रशम-ब्रह्मचर्याऽऽकिञ्चन्यादिषु तु मोक्षकारणेषु भवहेतुत्वाध्यवसायतो यदृच्छोपलम्भात् तस्याऽज्ञानम् । तथा विरत्यभावेन ज्ञानफलाभावाद् मिथ्यादृष्टेरज्ञानम् ॥ इति गाथार्थः ॥११५॥ (विशेषा०भा० गा० ११५) 24/1
एवं चोदित आचार्यः सर्वमेतदेमित्यनुज्ञापवादमाह - [102] एकमपि तु जिनवचनाद्यस्मानिर्वाहकं पदं भवति ।
श्रूयन्ते चानन्ताः, सामायिकमात्रपदसिद्धाः ॥२७॥ (व्या०) एकमपीत्यादि । एकमपि पदं किं पुनरियान् सप्तपदार्थसंग्रह इति तुशब्दो विशेषयति । जिनवचनादित्यवच्छेदे पञ्चमी, यथा समूहाच्छुक्लं प्रकाशते । यस्मादिति कारणे पञ्चमी । यस्मात् कारणानिर्वाहकं सुगृहीतमप्यभ्यस्यमानमुत्तरोत्तरज्ञानकारणत्वाद् भवोत्तारकमित्यर्थः । न चेयं स्वमनीषिका इत्याह, श्रूयन्ते इत्यादि, श्रूयन्ते चानन्ता इति च शब्दः समुच्चये, बीजलाभात् तदविनाशादुत्तरोत्तरवृद्धिसम्भवोऽवसीयते । श्रूयन्ते चेत्यभिप्रायमात्राऽवधारणे, एवं श्रूयन्ते प्रवचने- 'करेमि भदन्त ! सामायिकमित्येतावतैव पदेन भावतः सुगृहीतेनानन्तकालेन अनन्ताः सिद्धा' इत्युक्तं प्रवचने, उदाहरणमत्र तुषमाषैः स्वाध्याय इति ॥२७॥
यस्माच्चैवमागमो निर्वाहकमिति चावसीयते - तस्मात् तत्प्रामाण्यात्, समासतो व्यासतश्च जिनवचनम् । श्रेय इति निर्विचारं, ग्राह्य धार्यं च वाच्यं च ॥२८॥ [आर्या]
(व्या०) तस्मादित्यादि-तस्मादागमप्रामाण्यात् समासतः संक्षेपेण, व्यासतो विस्तरेण, यथाशक्त्याऽध्येयं जिनवचनं, न पुनरवमन्तव्यमिति दर्शयति, श्रेय इति, इदमेव हि श्रेयो नान्यदिति, निर्गतविचारं निःशङ्कमित्यर्थः । ग्राह्यमध्ययनश्रवणाभ्यां, धार्यमनुप्रेक्षणादिभिः, वाच्यमर्थविचारणादिभिः । ग्रहणधारणे तावदात्मोपकारिणी ॥२८॥
किं पुनर्वाचनयेति चोदितेऽध्यापनस्यैव गौरवख्यापनार्थं आत्मप्रयत्नदृढीकरणार्थं चाह -
न भवति धर्मः श्रोतुः, सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या, वक्तुस्त्वेकान्ततो भवति ॥२९॥ [आर्या]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org