________________
११८
मेव । तेण परं भिण्णेसुं भयणत्ति- पश्चानुपूर्व्या ततः परं भिन्नेसु दशसु भजना कदाचित् सम्यक्छुतं कदाचिन्मिथ्या श्रुतम्, परिणामविशेषात् । एतदुक्तं भवति - आसन्नभव्योऽपि मिथ्यादृष्टिः सम्पूर्णदशपूर्वरत्ननिधानं न प्राप्नोति, मिथ्यात्वपरिणामकलङ्कित्वाद् दारिद्र्यनिबन्धनपापकलङ्काङ्कितपुरुषवच्चिन्तामणिमिति । "से त” मित्यादि तदेतत् सम्यक्छ्रुतम् ॥
से किं तमित्यादि । अथ किं तन्मिथ्याश्रुतम् ? मिथ्याश्रुतं यदिदमज्ञानिकैः। तत्राल्पज्ञानभावादधनवदशीलवद्वा सम्यग्दृष्टयोऽप्यज्ञानिकाः प्रोच्यन्ते, अत आहमिथ्यादृष्टिभिः । किम् ' स्वच्छन्दबुद्धि-मतिविकल्पितम्' ईहावग्रहे बुद्धिः अपायधारणे मतिः स्वच्छन्देन - स्वाभिप्रायेण स्वतः सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितम्, स्वबुद्धिकल्पनाशिल्पनिर्मितमित्यर्थः । तद्यथा - भारतमित्यादि सूत्रसिद्धं यावत् चत्वारश्च वेदास्साङ्गोपाङ्गाः । एतानि स्वरूपतोऽन्यथावस्त्वभिधानाद् मिथ्या श्रुतमेव । स्वामिसम्बन्धचिन्तायां तु भाज्यानि । तथा चाह— [२] मिथ्यादृष्टेर्मिथ्यात्वपरिगृहीतानि विपरीताभिनिवेशहेतुत्वान्मिथ्या श्रुतम् । एतान्येव सम्यग्दृष्टेः सम्यक्त्वपरिगृहीतानि असारतादर्शनेन स्थिरतरसम्यक्त्वपरिणामहेतुत्वात् सम्यक्छ्रुतम् । (श्रीनन्दिसू० सू०७१-७३) 24/1
[101] ननु यथा मति - श्रुताभ्यां सम्यग्दृष्टिर्घटादिकं जानीते, व्यवहरति च, तथा मिथ्यादृष्टिरपि, तत् किमिति तस्य सत्कं सर्वमप्यज्ञानमुच्यते ? इत्याशङ्क्याह
सदसदविसेसणाओ, भवहेउ जदिच्छिओवलम्भाओ । नाणफलाभावाओ, मिच्छद्दिट्टिस्स अण्णाणं ॥ ११५ ॥
सच्चाऽसच्च सदसती तयोरविशेषणमविशेषस्तस्माद् हेतोः, मिथ्यादृष्टेः सम्बन्धि व्यवहारमात्रेण ज्ञानमपि निश्चयतोऽज्ञानमुच्यते, सतो ह्यसत्त्वेनाऽसद् विशिष्यते असतोऽपि च सत्त्वेन सद् भिद्यते । मिथ्यादृष्टिश्च घटे सत्त्व - प्रमेयत्वमूर्तत्वादीन्, स्तम्भ - रम्भा -: - ऽम्भोरुहादिव्यावृत्त्यादींश्च पटादिधर्मान् सतोऽप्यसत्त्वेन प्रतिपद्यते, 'सर्वप्रकारैर्घट एवायम्' इत्यवधारणात् अनेन ह्यवधारणेन सन्तोऽपि सत्त्व-प्रमेयत्वादयः पटादिधर्मा न सन्तीति प्रतिपद्यते, अन्यथा सत्त्व- प्रमेयत्वादिसामान्यधर्मद्वारेण घटे पटादीनामपि सद्भावात् 'सर्वथा घट एवायम्' इत्यव - धारणानुपपत्तेः, 'कथञ्चिद् घट एवाऽयम्' इत्यवधारणे त्वनेकान्तवादाभ्युपगमेन सम्यग्दृष्टित्वप्रसङ्गात्, तथा पट-पुट-नट- शकटादिरूपं घटेऽसदपि सत्त्वेनाऽयमभ्युपगच्छति 'सर्वैः प्रकारैर्घटोऽस्त्येव' इत्यवधारणात्, 'स्यादस्त्येव घटः '
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org