________________
११७
कामेन साधुना, न क्षुद्रजनाचरितान्युदाहरणीकृत्यासन्मार्गप्रवणं चेतोऽपि कर्त्तव्यम्, अपि त्वागमैकप्रवणेनैव भवितव्यमिति, उक्तं च-निमित्तमासाद्य यदेव किञ्चन, स्वधर्ममार्ग विसृजन्ति बालिशाः तप:श्रुतज्ञानधनास्तु साधवो, न यान्ति कृच्छ्रे परमेऽपि विक्रियाम् ॥१॥ तथा
कपालमादाय विपन्नवाससा, वरं द्विषद्वेश्मसमृद्धिरीक्षिता । विहायलज्जां न तु धर्मवैशसे, सुरेन्द्रता(सा)र्थेऽपि समाहितं मनः ॥२॥
तथा-पापं समाचरति वीतघृणो जघन्यः, प्राप्यापदं सघृण एव विमध्यबुद्धिः प्राणात्ययेऽपि न तु साधुजनः स्ववृत्तं, वेलां समुद्र इव लवयितुं समर्थः ॥३॥ इत्यलं प्रसङ्गेनेति सूत्रार्थः ॥२॥
अणुसोअसुहो लोओ, पडिसोओ आसवो सुविहिआणं । अणुसोओ संसारो, पडिसोओ तस्स उत्तारो ॥३॥
अधिकृतमेव स्पष्टयन्नाह-अनुस्रोतःसुखो लोकः-उदकनिम्नाभिसर्पणवत् प्रवृत्त्याऽनुकूलविषयादिसुखो लोकः कर्मगुरुत्वात्, प्रतिस्रोत एव तस्माद्विपरीतः आश्रवः इन्द्रियजयादिरूपः परमार्थपेशलः, कायवाङ्मनोव्यापारः आश्रमो वा व्रतग्रहणादिरूपः, सुविहितानां-साधूनाम्, उभयफलमाह-अनुस्रोतः संसारः शब्दादिविषयानुकूल्यं संसार एव, कारणे कार्योपचारात् यथा विषं मृत्युः दधि-त्रपुषी प्रत्यक्षोज्वरः, प्रतिस्रोतः उक्तलक्षणः, तस्येति पञ्चम्यर्थे षष्ठी सुपां सुपो भवन्तीति वचनाद्, तस्मात् संसाराद् उत्तार:-उत्तरणमुत्तारः, हेतौ फलोपचारात् यथाऽऽयुघृतम्, तन्दुलान् वर्षति पर्जन्य इति सूत्रार्थः ॥३॥ (दशवै०चू०-२, गा० २-३) 23/3
[100] इच्चेअं दुवालसंगं गणिपिडगं चोद्दसपुव्विस्स सम्मसुतं, अभिण्ण दसपुब्बिस्स सम्मसुतं, तेण परं भिण्णेसु भयणा । से तं सम्मसुतं ५।
से किं तं मिच्छसुतं ? मिच्छसुतं जं इमं अण्णाणिएहिं मिच्छट्टिीहिं सच्छंदबुद्धि-मतिवियप्पियं, तं जहा भारहं रामायणं हंभीमासुरक्खं कोडपिल्लयं सगभद्दियाओ खोडमुहं, कप्पासियं नामसुहुमं कणगसत्तरी वइसेसियं बुद्धवयणं वेसितं कविलं लोगायतं सट्ठितंतं माढरं पुराणं वागरणं णाडगादी, अहवा बावत्तरिकलाओ चत्तारि य वेदा संगोवंगा ॥ [२] एयाई मिच्छद्दिट्ठिस्स मिच्छत्तपरिग्गहियाई मिच्छसुतं, एयाणि चेव सम्मद्दिट्ठिस्स सम्मत्तपरिग्गहियाई सम्मसुयं । (सू. ७२) इच्चेदमित्यादि । इत्येतद् द्वादशाङ्गं गणिपिटकं चतुर्दशपूर्विणः सम्यक्छुतमेव,, तथा अभिन्नदशपूर्विणोऽपि सम्यक्छुत
૨ દ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org