________________
१०४
प्रधानीकृतातुल्यरूपा उपसर्जनीकृततुल्यरूपा विषमतया प्रज्ञायमाना विशेषा व्यपदिश्यन्ते, त एव च विशेषा उपसर्जनीकृतातुल्यरूपाः प्रधानीकृततुल्यरूपाः समतया प्रज्ञायमानाः सामान्यमिति व्यपदिश्यन्त इति, आह च
निर्विशेषं गृहीताश्च भेदाः सामान्यमुच्यते । ततो विशेषात् सामान्यविशिष्टत्वं न युज्यते ॥ वैषम्यसमभावेन, ज्ञायमाना इमे किल । प्रकल्पयन्ति सामान्यविशेषस्थितिमात्मनि ॥ [ ] इति ।
तदेवं सामान्यरूपेणात्मा एको विशेषरूपेण त्वनेकः, न चात्मनां तुल्यं रूपं नास्ति, एकात्मव्यतिरेकेण शेषात्मनामनात्मत्वप्रसङ्गादिति, तुल्यं च रूपमुपयोगः, उपयोगलक्षणो जीवः [ ] इति वचनात् तदेवमुपयोगरूपैकलक्षणत्वात् सर्वे एवात्मान एकरूपाः, एवं चैकलक्षणत्वादेक आत्मेति । अथवा जन्म-मरण - सुखदुःखादिसंवेदनेष्वसहायत्वादेक आत्मेति भावनीयमिति । इह च सर्वसूत्रेषु कथञ्चिदित्यनुस्मरणीयम् कथञ्चिद्वादस्याविरोधेन सर्ववस्तुव्यवस्थानिबन्धनत्वात्, उक्तं च
स्याद्वादाय नमस्तस्मै, यं विना सकलाः क्रियाः । लोकद्वितयभाविन्यो, नैव साङ्गत्यमिति ॥ []
तथा
नयास्तव स्यात्पदसत्त्वलाञ्छिता, रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ॥ (बृहत्स्वयम्भूस्तोत्रे) इति । ( स्था० सू० सू०२ ) । 18/4 [86] अथाशुचित्वभावनामाह
रसा - सृग् - मांस- मेदोऽस्थि-मज्जा-शुक्रा - ऽन्त्र - वर्चसाम् । अशुचीनां पदं कायः, शुचित्वं तस्य तत् कुत: ? ॥ ७२ ॥ रसो- भुक्तपीतान्न - पानपरिणामजो निःस्यन्दः, असृग्-रक्तं रससम्भवो धातुः, मांसंपिशितमसृग्भवम्, मेदो- वपा मांससम्भवम्, अस्थि - कीकसं मेदः सम्भवम्, मज्जासारोऽस्थिसम्भवः, शुक्रं रेतो मज्जसम्भवम्, अन्त्रं-पुरीतत्, वर्चो - विष्टा, एतेषामशुचिद्रव्याणां पदं स्थानं कायः । तत् तस्मात् तस्य कायस्य कथं शुचित्वम्? न कथञ्चिदित्यर्थः ॥ ७२ ॥ (योगशा० प्र०४, श्लो० ७२) 19/4
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org