________________
१०३
न उ पइसमयविणासे जेणिक्किक्कक्खरं चि य पयस्स । संखाइयसामाइयं संखेज्जाइं पयं ताई ॥ संखेज्जपयं वक्त्रं तदत्थगहणपरिणामओ होज्जा । सव्वखणभंगनाणं तदजुत्तं समयनट्ठस्स ॥
[विशेषाव० २४०१-२४०३] इति ।
तथा सर्वथोच्छेदे तृप्त्यादयो न घटन्ते, पूर्वसंस्कारानुवृत्तावेव तेषां युज्यमान
त्वाद्, आह च
तित्ती समो किलामो सारिक्ख-विवक्ख-पच्चयाईणि । अज्झयणं झाणं भावणा य का सव्वनासम्म ? ॥
[विशेषाव० २४०४ ]त्ति ।
अत्र तृप्तिः - ध्राणिः, श्रमः - अध्वादिखेदः, क्लमो - ग्लानि:, सादृश्यं साधर्म्यम्, विपक्षो-वैधर्म्यम्, प्रत्ययः - अवबोधः, शेषपदानि प्रतीतानि इत्यादि बहु वक्तव्यं तत्तु स्थानान्तरादवसेयमिति । तदेवमात्मा स्थिति - भवन - भङ्गरूपः स्थिररूपापेक्षया नित्यो नित्यत्वाच्चैकः, भवन- भङ्गरूपापेक्षया त्वनित्यः अनित्यत्वाच्चानेक इति, आह च
जमणंतपज्जयमयं वत्युं भुवणं व चित्तपरिणामं । ठिइ-विभव-भंगरूवं णिच्चाणिच्चाइ तोऽभिमयं ॥
Jain Education International
[विशेषाव० २४१६]त्ति |
एवं च
सुह- दुक्ख-बंध - मोक्खा उभयनयमयाणुवत्तिणो जुत्ता । एगयरपरिच्चाए सव्वव्ववहारवुच्छित्ति ॥ [ विशेषाव० २४१७] ति ।
अथवा एक आत्मा कथञ्चिदेवेति, यतो जैनानां न हि सर्वथा किञ्चिद्वस्तु एकमनेकं वाऽस्ति, सामान्य - - विशेषरूपत्वाद्वस्तुनः । अथ ब्रूयात्- विशेषरूपमेव वस्तु, सामान्यस्य विशेषेभ्यो भेदाभेदाभ्यां चिन्त्यमानस्यायोगात्, तथाहि - सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा स्यात् ? न भिन्नमुपलम्भाभावाद्, न चानुपलभ्यमानमपि सत्तया व्यवहर्तुं शक्यम्, खरविषाणस्यापि तथाप्रसङ्गात् । अथाभिन्नमिति पक्ष:, तथा च सामान्यमात्रं वा स्याद्विशेषमात्रं वेति, न ह्येकस्मिन् सामान्यमेकं विशेषास्त्वनेकरूपा इत्यसङ्कीर्णवस्तुव्यवस्था स्यादिति, अत्रोच्यते, न ह्यस्माभिः सामान्य- विशेषयोरेकान्तेन भेदोऽभेदो वाऽभ्युपगम्यते, अपि तु विशेषा एव
For Private & Personal Use Only
www.jainelibrary.org