________________
१०२ जो कत्ताइ स जीवो सज्झविरुद्धो त्ति ते मई हुज्जा । मुत्ताइपसंगाओ तं नो संसारिणो दोसो ॥ [विशेषाव० १५७०] त्ति ।
न चायमेकान्तो यदुत लिङ्ग्यविनाभूतलिङ्गोपलम्भव्यतिरेकेणानुमानस्यैव एकान्ततोऽप्रवृत्तिरिति, हसितादिलिङ्गविशेषस्य ग्रहाख्यलिङ्ग्यविनाभावग्रहणमन्तरेणापि ग्रहगमकत्वदर्शनात्, न च देह एव ग्रहो येनान्यदेहे दर्शनमविनाभावग्रहणनियामकं भवतीति, उक्तं च
सोऽणेगंतो जम्हा लिंगेहि समं न दिट्ठपुव्वो वि। गहलिंगदरिसणाओ गहोऽणुमेओ सरीरम्मि ॥ [विशेषाव० १५६६] इति ।
आगमगम्यत्वं त्वात्मनः ‘एगे आया' इति वचनात् । न चास्यागमान्तरैविसंवादः संभावनीयः, सुनिश्चिताप्तप्रणीतत्वादस्येति, बहु वक्तव्यमत्र, तच्च स्थानान्तरादवसेयमिति । किञ्च, आत्माभावे जातिस्मरणादयस्तथा प्रेतीभूतपितृपितामहादिकृतानुग्रहोपघातौ च न प्राप्नुयुरिति ।
__ आत्मनस्तु सप्रदेशत्वमवश्यमभ्युपगन्तव्यम्, निरवयवत्वे तु हस्ताद्यवयवानामेकत्वप्रसङ्गः प्रत्यवयवं स्पर्शाद्यनुपलब्धिप्रसङ्गश्चेति सप्रदेश आत्मा, प्रत्यवयवंचैतन्यलक्षणतद्गुणोपलम्भात, प्रतिग्रीवाद्यवयवमुपलभ्यमानरूपगुणघटवदिति स्थापितमेतत् 'द्रव्यार्थतया एक आत्मा' इति ।
अथवा एक आत्मा कथञ्चिदिति, प्रतिक्षणं सम्भवदपरापरकालकृतकुमारतरुण-नर-नारकत्वादिपर्यायैरुत्पाद-विनाशयोगेऽपि द्रव्यार्थतयैकत्वादस्य, यद्यपि हि कालकृतपर्यायैरुत्पद्यते नश्यति च वस्तु तथापि स्व-परपर्यायरूपानन्तधर्मात्मकत्वात् तस्य न सर्वथा नाशो युक्त इति, आह च
न हि सव्वहा विणासो अद्धापज्जायमेत्तनासम्मि । स-परपज्जायाणंतधम्मणो वत्थुणो जुत्तो ॥ [विशेषाव० २३९३] त्ति ।
किञ्च, प्रतिक्षणं क्षयिणो भावाः [ ] इत्येतस्माद् वचनात् प्रतिपाद्यस्य यत् क्षणभङ्गविज्ञानमुपजायते तदसङ्ख्यातसमयैरेव वाक्यार्थग्रहणपरिणामाज्जायते, न तु प्रतिपत्तुः प्रतिसमयं विनाशे सति, यत एकैकमप्यक्षरं पदसत्कं सङ्ख्यातीतसमयसम्भूतम्, सङ्ख्यातानि चाक्षराणि पदम्, सङ्ख्यातपदं च वाक्यम्, तदर्थग्रहणपरिणामाच्च 'सर्वं क्षणभङ्गरम्' इति विज्ञानं भवेत्, तच्चायुक्तं समयनष्टस्येति, आह च
कह वा सव्वं खणियं विन्नायं? जइ मई सुयाउ त्ति । तदसंखसमयसुत्तत्थगहणपरिणामओ जुत्तं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org