________________
'ज्ञातयः'-दूरवर्तिनः स्वजना न 'मित्रवर्गा'-सुहृत्समूहा न सुता:'-पुत्रा न 'बान्धवाः'-निकटवर्तिनः स्वजनाः, किन्तु एक:-अद्वितीयः 'स्वयम्'-आत्मना 'प्रत्यनुभवति'-वेदयते 'दुःखं'-क्लेशम्, किमिति ? यतः ‘कर्तारमेव'उपार्जयितारमेव 'अनुयाति'-अनुगच्छति, किं तत् ? कर्म, येन तत्कृतं तस्यैवफलमुपनयतीति भाव इति सूत्रद्वयार्थः । (उत्त० अ० १३. गा० २३) । 185
[84] कथं विचार्यते ? इत्याहजीवो गुणपडिवन्नो, नयस्स दव्वट्ठियस्स सामइयं । सो चेव पज्जवट्ठियनयस्स जीवस्स एस गुणो ॥२६४३॥
जीव-आत्मा, गुणैः प्रतिपन्न-आश्रितः, द्रव्यमेवार्थो यस्य न तु पर्यायाः स द्रव्यार्थिकस्तस्य द्रव्यार्थिकस्य नयस्य मतेन सामायिकम् । इदमुक्तं भवति-गुणाः खल्वौपचारिकत्वादसन्त एव, द्रव्यव्यतिरेकेण तेषामनुपलम्भात् । ततश्च न्यग्भूतगुणग्रामो जीव एव मुख्यवृत्त्या सामायिकं न तु पर्याया इति द्रव्याथिकनयो मन्यते । आह-ननु रूपादयो गुणा यदि न सन्ति, तर्हि कथं लोकस्य द्रव्ये तत्प्रतिपत्तिः ? उच्यते-भ्रान्तैवेयम्, चित्रे निम्नोन्नतप्रतिपत्तिवत् । इत्यस्य नयस्याभिप्रायः । स एव सामायिकादिगुणः पर्यायाथिकनयस्य परमार्थतोऽस्ति, न तु जीवद्रव्यम्, यस्माज्जीवस्यैष गुणः, जीवगुण इति तत्पुरुषोऽयम्, स चोत्तरपदप्रधानः, यथा तैलस्य धारा तैलधारेति, न चात्र धारातिरिक्तं किमपि तैलमस्ति । एवं ज्ञानादिगुणातिरिक्तं जीवद्रव्यमपि नास्तीति पर्यायार्थिकनयाभिप्रायः ॥ इति नियुक्तिगाथार्थः ॥२६४३।। (विशेषा० गा० २६४३) । 18/6 ___[85] [सू० २] एगे आया ।
[टी०] यदाख्यातं भगवता तदधुनोच्यते । तत्र सकलपदार्थानां सम्यग्मिथ्याज्ञानश्रद्धानाऽनुष्ठानविषयीकरणेनोपयोगनयनादात्मनः सर्वपदार्थप्राधान्यमतस्तद्विचारं तावदादावाह एगे आया एको न व्यादिरूपः, आत्मा जीवः, कथञ्चिदिति गम्यते, तत्र अतति सततमवगच्छति अत सातत्यगमने [पा० धा० ३८] इति वचनाद् 'अत'-धातोर्गत्यर्थत्वाद् गत्यर्थानां च ज्ञानार्थत्वादनवरतं जानातीति निपातनादात्मा जीवः, उपयोगलक्षणत्वादस्य सिद्ध-संसार्यवस्थाद्वयेऽप्युपयोगभावेन सततावबोधभावात्, सततावबोधाभावे चाजीवत्वप्रसङ्गात्, अजीवस्य च सतः पुनर्जीवत्वाभावात्, भावे चाकाशादीनामपि तथात्वप्रसङ्गात्, एवं च जीवानादित्वाभ्युपगमाभावप्रसङ्गश्च इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org