________________
प्रत्याख्यानाद्यप्यवगन्तव्यम् । जइ भे अज्जो त्ति यदि भवतां हे आर्याः ! स्थविराः! सामायिकमात्मा तदा अवहटु ति अपहृत्य-त्यक्त्वा क्रोधादीन् किमर्थं गहध्वे ? निंदामि गरिहामि अप्पाणं वोसिरामि इति वचनात् क्रोधादीनेव अथवा अवज्जमिति गम्यते, अयमभिप्रायः-यः सामायिकवान् त्यक्तको धादिश्च स कथं किमपि निन्दति? निन्दा हि किल द्वेषसम्भवेति, अत्रोत्तरं संयमार्थमिति । (भग० श०१, उ०९, सू०७६) । 18/1, 1977
[81] संतेऽवि कोऽवि उज्झइ, कोवि असंतेऽवि अहिलसइ भोए । चयइ परंपच्चएणऽवि, पभवो दट्टण जह जंबुं ॥३७॥
सतोऽपि विद्यमानानपि कश्चिद् विवेकी जम्बूवदुज्झति त्यजति भोगानिति सम्बन्धः, भुज्यन्त इति भोगाः शब्दादयस्तानिति कश्चिदविवेकी प्रभववदसतोऽपि अभिलषति वाञ्छति भोगान् । तथा कश्चिदिति वर्तते, त्यजति परप्रत्ययेनापि, किंवदित्याह-प्रभवो दृष्ट्वा यथा जम्बूमिति समासार्थः । (उपदे० मा० गा०३७) । 18/4
[82] धणेण किं धम्मधुराहिगारे ? सयणेण वा कामगुणेहिं चेव । समणा भविस्सामु गणोहधारी, बर्हि विहारा अभिगम्म भिक्खं ॥१७॥
धनेन-द्रव्येण किं, न किञ्चिदित्यर्थः, धर्म एवातिसात्त्विकैरुह्यमानतया धूरिव धूर्धर्मधुरा, तदधिकारे-तत्प्रस्तावे, स्वजनेन वा कामगुणैश्चैव, तथा च वेदेऽप्युक्तं"न प्रजया न धनेन त्यागेनैकेनामृतत्वमानशुरित्यादि, ततः श्रमणौ-तपस्विनौ भविष्याव:, गुणौघ-सम्यग्दर्शनादिगुणसमूहं धारयत इत्येवंशीलौ गुणौघधारिणौ, बहिः-ग्रामनगरादिभ्यो बहिर्वतित्वाद् द्रव्यतो भावतश्च क्वचिदप्रतिबद्धत्वाद् विहारः-विहरणं ययोस्तौ बहिर्विहारौ, अप्रतिबद्धविहाराविति यावत्, अभिगम्यआश्रित्य, भिक्षां-शुद्धोञ्छां तामेवाहारयन्ताविति भाव इति सूत्रार्थः । (उत्त० अ० १४. गा० १७) 1 18/5 [83] न तस्स दुक्खं विभयंति नायओ, न मित्तवग्गा न सुआ न बंधवा ।
इक्को सयं पच्चणुहोइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ॥२३॥
इदमेवाभिव्यनक्ति, आद्यव्याख्याने तु स्यादेतद्-जीवितारक्षणेऽपि दुःखांशहारिणो भविष्यन्त्यत आह-न तस्य-मृत्युना नीयमानस्य तत्कालभाविना दुःखेनात्यन्तपीडितस्य दुःखं-शारीरं मानसं वा 'विभजन्ति'-विभागीकुर्वन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org