________________
९७
कषायाणां प्रथमत उपादानमिन्द्रियाणामपि कषायवशत एवानर्थहेतुत्वख्यापनार्थम्, सम्प्रति उपसंहरव्याजेन तज्जये फलमाह तान् उक्तस्वरूपान् शत्रून् जित्वा-अभिभूय यथान्यायं-यथोक्तनीत्यनतिक्रमेण ततो विहरामि तन्मध्येऽपि तिष्ठन्नप्रतिबद्धविहारितयेति गम्यते । तेषामेव प्रतिबन्धहेतुत्वेन तद्विबन्धकाभावादिति भावः, अहमित्यात्मनिर्देशः मुने ! इति केश्यामन्त्रणमिति सूत्रचतुष्टयार्थः ॥ (उत्तरा० अ० २३, गा० ३८) । 17/8 178] रागदोसादओ तिव्वा, नेह पासा भयङ्करा ।
ते छिदित्तु जहानायं, विहरामि जहक्कमं ४३॥ रागद्वेषादयः, आदिशब्दान्मोहपरिग्रहः तीव्राः इति गाढाः, तथा णेहत्ति स्नेहा:-पुत्रकलत्रादिसम्बन्धास्ते पाशा इव पारवश्यहेतुतया पाशा इत्युक्ता इति क्रमः, अतिगाढत्वाच्च रागान्तर्गतत्वेऽप्यमीषां पुनरुपादानम्, भयङ्कराः अनर्थहेतुतया त्रासोत्पादका यथाक्रमम् इति क्रमः-यतिविहितआचारस्तदनतिक्रमेणेति सूत्रचतुष्टयार्थ ॥४३॥ (उत्तरा० अ०२३, गा०४३) । 17/8
एवमपि कथं सुखेन वसनं जीवनं वेत्याह[79] बहु खु मुणिणो भई, अणगारस्स भिक्खुणो।
सव्वतो विप्पमुक्कस्स, एगंतमणुपस्सओ ॥१६॥ बहु-विपुलम्, खुः-अवधारणे, बह्वेव, मुनेः-तपस्विनः, भद्रं-कल्याणं सुखं वा अनगारस्य-भिक्षोः इति च प्राग्वत्, सर्वतः-बाह्यादभ्यन्तराच्च, यद्वा स्वजनात् परिजनाच्च, विप्रमुक्तस्य इति पूर्ववत्, एकान्तम्-एकोऽहमित्याधुक्तरूपैकत्वभावनात्मकम् अनुपश्यतः-पर्यालोचयत इति सूत्रद्वयार्थः । (उत्त० अ०९ गा० १६)। 17/8 . [80] तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवंते एवं वयासी जति भे अज्जो ! आयासामाइए आयासामाइयस्स अट्टे एवं जाव आया विउस्सग्गस्स अट्टे अवहटु कोहमाणमायालोभे किमटुं अज्जो ! गरहह ? कालास० संजमट्ठयाए ॥ ७६ ॥
अज्जो ! त्ति हे आर्य ! ओकारान्तता सम्बोधने प्राकृतत्वात्, किं भे त्ति किं भवतामित्यर्थः, आया णे ति आत्मा । नः -अस्माकं मते सामायिकमिति, यदाहजीवो गुणपडिवण्णो, नयस्स दव्वट्ठियस्स सामाइयं त्ति, सामायिकाओं पि जीव एव, कर्मानुपादानादीनां जीवगुणत्वात् जीवाव्यतिरिक्तत्वाच्च तद्गुणानामिति । एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org