________________
तदेव दर्शनं श्रद्धानरूपत्वात् ॥२॥
आत्मज्ञानमेव स्तौतिआत्माज्ञानभवं दुःख-मात्मज्ञानेन हन्यते । तपसाप्यात्मविज्ञान-हीनैश्छेत्तुं न शक्यते ॥३॥
इह सर्वं दुःखमनात्मविदां भवति । तदात्माज्ञानभवं प्रतिपक्षभूतेनात्मज्ञानेन शाम्यति क्षयमुपयाति तम इव प्रकाशेन । ननु कर्मक्षयहेतुः प्रधानं तप उक्तम्, यदाहुः- पावाणं च खलु भो कडाणं कम्माणं पुट्वि दुच्चिन्नाणं दुप्पडिक्कं त्ताणं वेइत्ता मुक्खो नत्थि अवेयइत्ता तवसा वा ॥ (दशवै० चू०)
(पुव्विं दुच्चिन्नाणं कडाणं कम्माणं वेअइत्ता मोक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता ।) इत्याह-तपसाऽपि, आस्तामन्येनानुष्ठानेन, तदात्माज्ञानभवं दुःखमात्मविज्ञानहीनैर्न च्छेत्तुं शक्यते, ज्ञानमन्तरेण तपसोऽल्पफल- त्वात्, यदाह
जं अन्नाणी कम्मं खवेइ बहुयाहि वासकोडीहिं । तण्णाणी तिहिं गुत्तो खवेइ ऊसासमेत्तेण ॥१॥
[बृहत्कल्पभाष्ये गा. ११७०] तत्स्थितमेतद् बाह्यविषयव्यामोहमपहाय रत्नत्रयसर्वस्वभूते आत्मज्ञाने प्रयतितव्यम्, यदाहुर्बाह्या अपि- "आत्मा रे ! श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" [बृहदारण्यकोपनिषदि ४/५/६] इति ।
आत्मज्ञानं च नात्मन: कर्मभूतस्य पृथक् किञ्चित्, अपि त्वात्मनश्चिद्रूपस्य स्वसंवेदनमेव, नातोऽन्यदात्मज्ञानं नाम । एवं दर्शन-चारित्रे अपि नात्मनो भित्रे । एवं च चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृग्यते ? विषयान्तरज्ञानमेव ह्यज्ञानरूपं दुःखं छिन्द्यात् । नैवम्, सर्वविषयेभ्य आत्मन एव प्रधानत्वात्, तस्यैव कर्मनिबन्धनशरीरपरिग्रहे दुःखितत्वात् कर्मक्षये च सिद्धरूपत्वात् ॥३॥ [योगशा० प्र. ८ श्लो. १-२-३] 16/8 [m एगप्पो अजिए सत्तू, कसाया इंदियाणि य।
ते जिणित्तु जह्मनायं, विहरामि अहं मुणी ॥३८॥ एक आत्मेति-जीवश्चित्तं वाऽतति-गच्छति तांस्तान् भावान् अर्थानिति व्युत्पत्तेः, अजित:-अवशीकृतः अनेकानावाप्तिहेतुत्वाच्छछरिव शत्रुस्तथोक्तहेतोरेव कषाया:-क्रोधादयः इन्द्रियाणि-स्पर्शनादीनि, चशब्दान्नोकषायादयः कषायाद्युत्तरोत्तरभेदाच, अजिताः शत्रवः इति वचनविपरिणामेन योज्यते । इह च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org