SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ जघन्या, तत्परिणामस्य विशुद्ध्यपेक्षया जघन्यत्वात्, अविरत्तसम्यग्दृष्टेमध्यमा, तत्परिणामस्य विशुद्धिमङ्गीकृत्य मध्यमत्वात्, सामान्यविरतस्य तूत्कृष्टा, तत्परिणामस्य तथाविधत्वादेवेति, अथवाऽपुनर्बन्धकस्यापि त्रिधा प्रमोदरूपभावत्रैविध्यादेवमितरयोरपीति, अथापुनर्बन्धकादीनामिति कस्मादुक्तं ? मार्गाभिमुखादेरपि भावभेदसद्भावादित्यत्राह-शेषाणाम्-अपुनर्बन्धकादिव्यतिरिक्तानां सकृद्वन्धक-मार्गाभिमुख-मार्गपतिततदितरमिथ्यादृशाम्, 'इमीति' इयमधिकृता भावभेदेन भेदवती वन्दना, पाठादिभेदवती तु स्यादपि, न-नैव, यद्-यस्मात्, समये-सिद्धान्ते, भणितेति शेषः, तेषां तद्योग्यताविकलत्वादिति गाथार्थः ॥३॥ 'अपुनर्बन्धकादीनामियं भवती'त्युक्तमतस्तालक्षणतो निरूपयन्नपुनर्बन्धकं तावदाह-'पावे'त्यादि, पापम्-अशुद्धं कर्म, तत्कारणत्वाद्धिंसाद्यपि पापं तत्, न-नैव, तीव्रभावाद्-गाढसंक्लिष्टपरिणामात्, करोति-विद्यते, अत्यन्तोत्कटमिथ्यात्वादिक्षयोपशमेन लब्धात्मनैर्मल्यविशेषत्वात्, तीव्रतिविशेषणादापन्नमतीव्रभावात्करोत्यपि तथाविधकर्मदोषात्, तथा न बहु मन्यत-न बहुमानविषयीकरोति, भवं-संसारम्, घोरं-रौद्रम्, तस्य घोरत्वावगमात्, तथा उचितस्थितिम्अनुरूपप्रतिपत्तिम्, चशब्दः समुच्चये, सेवते-भजते कर्मलाघवात्, सर्वत्रापि, आस्तामेकत्र देशकालावस्थापेक्षया समस्तेष्वपि देवातिथिमातापितॄप्रभृतिषु मार्गानुसारिताभिमुखत्वेन, मयूरशिशुदृष्टान्ताद, अपुनर्बन्धकः-उक्तनिर्वचनो जीवः, इत्येवंविधक्रियालिङ्गो भवति, इति गाथार्थः ॥४॥ (पञ्चा०प्र०पं०३श्लो०-४) 16/8 [76] इदानीमभेदनयाश्रयेणात्मनो रत्नत्रयेणैकत्वमाहआत्मैव दर्शन-ज्ञान-चारित्राण्यथवा यतेः । यत्तदात्मक एवैष, शरीरमधितिष्ठति ॥१॥ अथवेति भेदनयापेक्षया प्रकारान्तरस्याभेदनयस्य प्रकाशनार्थम् । आत्मैव, न ततो भिन्नानि दर्शन-ज्ञान-चारित्राणि । यतेरिति संबन्धिपदम् । अत्रोपपत्तिमाहयद्-यस्मात् तदात्मक एव-दर्शन-ज्ञान-चारित्रात्मक एव तदभेदमापन्न एवैष आत्मा शरीरमधितिष्ठति । आत्मभिन्नानां हि दर्शनादीनां नात्मनि मुक्तिहेतुत्वं स्यात्, देवदत्तसम्बन्धिनामिव यज्ञदत्ते ॥१॥ आत्मानमात्मना वेत्ति, मोहत्यागाद्य आत्मनि । तदेव तस्य चारित्रम्, तज्ज्ञानं तच्च दर्शनम् ॥२॥ आत्मानं कर्मतापन्नमात्मन्याधारभूते आत्मना स्वयमेव यो वेत्ति-जानीते । एतच्च ज्ञानं न मूढानां भवतीत्याह-मोहत्यागात् । तदेवात्मज्ञानमेव तस्यात्मनश्चारित्रम्, अनास्त्रवरूपत्वात् । तज्ज्ञानं-तदेव ज्ञानम्, बोधरूपत्वात् । तच्च दर्शनम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy