________________
[73] पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु ।
युक्तिमद् वचनं यस्य, तस्य कार्यः परिग्रहः ॥ ३ ॥ पक्षपात इति । न मे-मम, वीरे-श्रीवर्धमानस्वामिनि, पक्षपात:-गुणाऽनालोचनपूर्व एव रागः । कपिलादिषु च न मे द्वेषः । किन्तु यस्य वचनं युक्तिमत्, तस्य परिग्रहः-स्वीकारः कार्यः । इत्थं चाऽत्राऽविसंवादिवचनत्वेनैव भगवतो महत्त्वमाचार्यैरभिप्रेतम् । (द्वा०द्वा०४।३) 16/7 174] यद्येवं किमात्मशक्त्यननुरूपेणानेनैवोपक्रमेणेत्याह
तथापि श्रद्धामुग्धोऽहम्, नोपालभ्यः स्खलन्नपि ।
विशृङ्खलापि वाग्वृत्तिः, श्रद्दधानस्य शोभते ॥८॥ ततोऽप्येवं सत्यप्यहमस्मिन् वीतरागस्तवाध्वन्यध्वनीनतामाकलयन्नविकलसामर्थ्यशून्यः स्थाने स्थाने स्खलन्नपि विमलमतिभिर्नोपालभ्यः । यतः परमात्मप्रतिबद्धस्तुतिश्रद्धया मुग्धः शक्याशक्यार्थविचारचातुर्यवर्जितः, एवंविधस्य च श्रद्दधानस्य निरुपाधिश्रद्धाबन्धबन्धुरान्तःकरणस्य वाग्वृत्तिर्वचनपद्धतिविश्रृङ्खलापि-पूर्वापरविसंवादविसंस्थुलापि भक्तिव्यक्तरेकात्मतया शोभते बालालापचापलमिव कौतुकं च जनयतीति समञ्जसम् ।।८॥
अवचूर्णिः-पुनः कारणान्तरं विमृश्य स्तवोद्योगं दर्शयन्ति-तथा० तथापि निर्विचारत्वे सत्यपि श्रद्धामुग्धो वासनाप्रेरितस्वान्तोऽहं स्तवने स्खलन्नपि स्वल्पमतितया गुणानन्त्यं प्रकटयितुमशक्नुवन्नपि नोपालभ्यः, मूर्ख ! मा वदेति न निराकार्यः । यतः कारणात् श्रद्धानस्य श्रद्धावतो विशृङ्खलाऽसम्बद्धापि वाग्वृत्तिर्वचनरचना शोभते ॥८॥
[75] अहवावि भावभेया ओघेण अपुणबंधगाईणं । सव्वावि तिहा णेया सेसाणमिमी ण जं समए ॥३॥ पावं ण तिव्वभावा कुणइ ण बह मण्णई भवं घोरं । उचियटिइं च सेवइ सव्वत्थवि अपुणबंधोत्ति ॥४॥
'अहे'त्यादि, अथवाऽपीति निपातः पूर्वोक्तप्रकारापेक्षया प्रकारान्तरत्वद्योतनार्थः, भावभेदात्-परिणामविशेषाद् गुणस्थानकविशेषसंभवात्प्रमोदमात्ररूपाद्वा वन्दनाधिकारिजीवगतात् त्रिधा विज्ञेयेति सम्बन्धः, ओघेन-सामान्येन विवक्षितपाठक्रियाल्पत्वादितयेत्यर्थः, केषामित्याह-अपुनर्बन्धकादीनाम्-अपुनर्बन्धकप्रभृतिकानां वन्दनाधिकारिणाम्, तत्रापुनर्बन्धको व्याख्यातपूर्वः, आदिशब्दादविरतसम्यग्दृष्टिदेशसर्वविरतग्रहः, सर्वाऽपिनमस्कारादि भेदेन जघन्यादिप्रकारा अपि, आस्तामेका काचिदिति, तत्रापुनर्बन्धकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org