________________
ज्ञानं-मत्यादि सविपर्यासं-मत्यज्ञानादित्रयानुगतं नैगमादयस्त्रयः श्रयन्तिअभ्युपगच्छन्ति आदित-आदेरारभ्य नया:-वस्त्वंशग्राहिणः सर्वम्-अष्टविधम् । कस्य पुनर्ज्ञानं कस्य च विपर्यासो भवतीत्येतदाह-सम्यग्दृष्टे:-अर्हदभिहिततत्त्वश्रद्धायिनः यदिन्द्रियजमनिन्द्रियजं च तत् सर्वं ज्ञानम्, मिथ्यादृष्टेः सर्वमेव विपर्यासः ॥२॥
ऋजुसूत्र उक्तस्वरूपः षट्-मतिमत्यज्ञानरहितानि श्रुतादीनि श्रयते, मति तु सविपर्यासां न श्रयते, अ(य)तः श्रुतस्य ग्रन्थारूषितस्य उपग्रहत्वात्-उपकारकत्वाद् उक्तेन विधिना, ततश्च श्रुतादनन्या मतिरतोऽनन्यत्वान्नाश्रयते । शब्दस्तु श्रुतज्ञानकेवलज्ञाने श्रयते, नान्यत्, किं कारणम् ? श्रुताङ्गत्वात् श्रुतस्य प्रतिविशिष्टबलाधानहेतुत्वादुक्तेन विधिना, शब्द एव नयः ॥३||
मिथ्यादृष्ट्यज्ञाने, मिथ्यादृष्टम् अज्ञानं च अपरिच्छेदात्मकं न श्रयते, किं कारणम् ? यतो नास्य कश्चिदज्ञोऽस्ति नास्त्यस्य कश्चिदशः शब्दस्य मतेन कश्चित् प्राणी । किं कारणमिति चेत् ? उच्यते-ज्ञस्वाभाव्यात् सर्वप्राणिनां ज्ञातृस्वरूपत्वाज्जीवो मिथ्यादृष्टिर्नास्ति न चाप्यज्ञोऽस्ति ॥४॥
इति-एवमनेनोक्तेन स्वरूपेण नयवादाः नैगमादिविचाराः चित्राः बहुरूपाः, विचित्रैः प्रकारैर्वस्तुनः परिच्छेदित्वात्, ते चित्रा: क्वचिद् विरुद्धाः क्वचिद् वस्त्वंशे रुचिगृहीते विरुद्धा इव लक्ष्यन्ते, यतः सामान्ये आश्रिते यस्तत्रैव विशेषं कल्पयति तदा पूर्वापरेण विरुध्यते, विशेषे वा कालिकेऽभ्युपेते वर्तमानावधिके विशेष आश्रिते पूर्वः परेण विरुद्ध इति लक्ष्यते, एवं सर्वेष्वायोजनीयम् । एवं क्वचिद् विरुद्धा इव । अथवा सम्यगालोच्यमानाः विशुद्धाः, सामान्यादीनां धर्माणां सर्वेषां तत्र वस्तुनि भावात् । अथैवमेव लौकिकानामपि वैशेषिकादीनां वस्तुविचारणायां सम्पतन्त्युत नेति ? उच्यते-न सम्पतन्ति, यदि सम्पतेयुजैनशासनवत् तान्यपि निरवद्यानि मतानि स्युः, नैव तत् तथा, एतदाह-लौकिकविषयातीताः लौकिकानां-वैशेषिकादीनां विषयाःशास्त्राणि तान्यतीता:-अतिक्रान्ताः, न सन्ति तेष्वित्यर्थः ॥ अथ यथा ते वैशेषिकादयो नालोचयन्त्येभिर्वस्तु तथाऽत्रापि किमाश्रयते उत नेति ? उच्यते-न तथा नालोचनीयं वस्तु, किन्त्वालोचनीयमेवेति, एतदाह-तत्त्वज्ञानार्थमधिगम्याः तत्त्वं-सद्रपं सर्वदोषरहितं यज्ज्ञानं तत् तत्त्वज्ञानं तत्त्वज्ञानाय-तत्त्वज्ञानार्थ-तत्त्वज्ञानप्रयोजनार्थम् अधिगम्याः ज्ञेयाः एतत् कथयति-समस्तनयसामग्र्या आलोच्यमानं वस्तु सुधियां प्रीतिमाधिनोति, अन्यथा यथावस्तु संवादो दुःखेनापाद्येत, यत एकनयमतावलम्बिनां वस्तुस्वरूपसम्पादने सामर्थ्याभावात् समग्रया नयविचारणया वस्तुस्वरूपप्रतिपादनं सुकरमवगतस्याद्वादसद्भावैरिति ॥५॥३५॥ (तत्त्वा० स्वो० भा० टी० अ०५, सू०३५) 16/3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org