________________
१००
अथवा अति सततं गच्छति स्वकीयान् ज्ञानादिपर्यायानित्यात्मा नन्वेवमाकाशादीनामप्यात्मशब्दव्यपदेशप्रसङ्गः, तेषामपि स्वपर्यायेषु सततगमनाद्, अन्यथा अपरिणामित्वेनावस्तुत्वप्रसङ्गादिति, नैवम्, व्युत्पत्तिमात्रनिमित्तत्वादस्य, उपयोगस्यैव च प्रवृत्तिनिमित्तत्वाद् जीव एव आत्मा, नाकाशादिरिति । यद्वा संसार्यपेक्षया नानागतिषु सततगमनात् मुक्तापेक्षया च भूततद्भावत्वादात्मेति । तस्य चैकत्वं कथञ्चिदेव, तथाहि - द्रव्यार्थतयैकत्वमेकद्रव्यत्वादात्मनः, प्रदेशार्थतया त्वनेकत्वमसख्येयप्रदेशात्मकत्वात् तस्येति । तत्र द्रव्यं च तदर्थश्चेति द्रव्यार्थः, तस्य भावो द्रव्यार्थता प्रदेश - गुण पर्यायाधारता, अवयविद्रव्यतेति यावत् । तथा प्रकृष्टो देश: प्रदेशो निरवयवो ऽंशः स चासावर्थश्चेति प्रदेशार्थः, तस्य भावः प्रदेशार्थता, गुणपर्यायाधारावयवलक्षणार्थतेति यावत् । नन्ववयवि द्रव्यमेव नास्ति, विकल्पद्वयेन तस्यायुज्यमानत्वात्, खरविषाणवत्, तथाहि - अवयवि द्रव्यमवयवेभ्यो भिन्नमभिन्नं वा स्याद् ? न तावदभिन्नम्, अभेदे हि अवयविद्रव्यवदवयवानामेकत्वं स्याद्, अवयववद्वाऽवयविद्रव्यस्याप्यनेकत्वं स्यात्, अन्यथा भेद एव स्यात्, विरुद्धधर्माध्यासस्य भेदनिबन्धनत्वादिति । भिन्नं चेत् तत् तेभ्यः, तदा किमवयविद्रव्यं प्रत्येकमवयवेषु सर्वात्मना समवैति देशतो वेति ?, यदि सर्वात्मना तदाऽवयवसङ्ख्यमवयविद्रव्यं स्यात्, कथमेकत्वं तस्य ? अथ देशैः समवैति ततो यैर्देशैरवयवेषु तद्वर्त्तते तेष्वपि देशेषु तत् कथं वर्त्तते देशतः सर्वतो वेति ? सर्वतश्चेत्तदेव दूषणम्, देशतश्चेत् तेष्वपि देशेषु कथमित्यादिरनवस्था स्यादिति, अत्रोच्यते, यदुक्तम्- 'विकल्पद्वयेन तस्यायुज्यमानत्वा' दिति तदयुक्तम्, एकान्तेन भेदाभेदयोरनभ्युपगमात्, अवयवा एव हि तथाविधैकपरिणामतया अवयविद्रव्यतया व्यपदिश्यन्ते, त एव च तथाविधविचित्रपरिणामापेक्षया अवथवा इति, अवयविद्रव्याभावे तु एते घटावयवा एते च पटावयवा इत्येवमसङ्कीर्णावयवव्यवस्था न स्यात्, तथा च प्रतिनियतकार्यार्थिनां प्रतिनियतवस्तूपादानं न स्यात्, तथा च सर्वमसमञ्जसमापनीपद्येत । सन्निवेशविशेषाद् घटाद्यवयवानां प्रतिनियतता भविष्यतीति चेत्, सत्यम्, केवलं स एव सन्निवेशविशेषोऽवयविद्रव्यमिति । यच्चोच्यते विरुद्धधर्माध्यासो भेदनिबन्धनमिति, तदपि न सूक्तम्, प्रत्यक्षसंवेदनस्य परमार्थापेक्षया भ्रान्तत्वेन संव्यवहारापेक्षया त्वभ्रान्तत्वेनाभ्युपगमादिति, यदि नाम भ्रान्तमभ्रान्तं कथमित्येवमत्रापि वक्तुं शक्यत्वादिति । किञ्च, विद्यते अवयविद्रव्यम्, अव्यभिचारितया तथैव प्रतिभासमानत्वाद्, अवयववन्नीलवद्वा । न चायमसिद्धो हेतु:, तथाप्रतिभासस्यानुभूयमानत्वात् नाप्यनैकान्तिकत्वविरुद्धत्वे, सर्ववस्तुव्यवस्थायाः प्रतिभासाधीनत्वाद्, अन्यथा न किञ्चनापि वस्तु सिध्येदिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org