SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ६६ "सजोगि"त्ति सयोगिकेवलिनो दशमी गुणश्रेणिः । "इयर"त्ति अयोगिकेवलिन एकादशी गुणश्रेणिरिति गाथाक्षरार्थः । __ भावार्थः पुनरयं-सम्यक्त्वलाभकाले मन्दविशुद्धिकत्वाद् जीवो दीर्घान्तर्मुहूर्तवेद्यामल्पतरप्रदेशानां च गुणश्रेणिमारचयति । ततो देशविरतिलाभे सङ्ख्येयगुणहीनान्तर्मुहूर्तवेद्यामसङ्ख्येयगुणप्रदेशाग्रां च तां करोति । ततः सर्वविरतिलाभे सङ्ख्येयगुणहीनान्तर्मुहूर्तवेद्यामसङ्ख्येयगुणप्रदेशाग्रां च तां करोति । ततोऽप्यनन्तानुबन्धिविसंयोजनायां सङ्ख्येयगुणहीनान्तर्मुहूर्तवेद्यामसङ्ख्येयगुणप्रदेशाग्रां च तां विदधाति । ततो दर्शनमोहनीयक्षपकः सङ्ख्येयगुणहीनान्तर्मुहूर्तवेद्यामसङ्ख्येयगुणप्रदेशाग्रां च तां निर्मापयति । ततोऽपि मोहशमकः सङ्ख्येयगुणहीनान्तर्मुहूर्तवेद्यामसङ्ख्येयगुणप्रदेशाग्रां च तां विरचयति । ततोऽप्युपशान्तमोहगुणस्थानकवर्ती सङ्ख्येयगुणहीनान्तर्मुहूर्तवेद्यामसङ्ख्येयगुणप्रदेशाग्रां च तां विरचयति । ततोऽपि क्षपकः सङ्ख्येयगुणहीनान्तर्मुहूर्तवेद्यामसङ्ख्येयगुणप्रदेशाग्रां च तां विरचयति । ततोऽपि क्षीणमोहः सङ्ख्येयगुणहीनान्तर्मुहूर्तवेद्यामसङ्ख्येयगुणप्रदेशाग्रां च तां कुरुते । ततोऽपि सयोगिकेवली भगवान् सङ्ख्येयगुणहीनान्तर्मुहूर्तवेद्यामसङ्ख्येयगुणप्रदेशानां च तां विधत्ते । ततोप्ययोगिकेवली परमविशुद्धिपरिकलितः सङ्ख्येयगुणहीनान्तर्मुहूर्तवेद्यामसङ्ख्येयगुणप्रदेशाग्रां च तां परिकल्पयति तदेवं यथा यथातिविशुद्धिस्तथा तथा हुस्वकालबहुप्रदेशाग्रत्वं च गुणश्रेणेर्भवतीति ॥ (पञ्चमकर्म० गा०८२) । 15/6 [68] सातद्धिरसेष्वगुरुः, सम्प्राप्य विभूतिमसुलभामन्यैः । सक्तः प्रशमरतिसुखे, न भजति तस्यां मुनिः सङ्गम् ॥२५६॥ साते ऋद्धौ रसे च अगुरुरकृतादरः । सम्प्राप्य विभूतिमाकाशगमनादिकाम् । अन्यैरसुलभाम्-अप्राप्ताम् । तादृक्चारित्रै सक्तोऽभिरतः प्रशमरतिसुखे । न भजतिन करोति । तस्यां विभूतौ मुनिः सङ्ग-स्नेहम्, नोपजीवति लब्धीरित्यर्थः । सर्व_तिशायिनां यतीनामृद्धिर्भवति परमातिशयप्राप्तत्वादिति दर्शयतिया सर्वसुरवरद्धिविस्मयनीयापि सानगारद्धैः । नार्घति सहस्रभागम्, कोटिशतसहस्रगुणितापि ॥२५७॥ सर्वसुराणां ये वराः प्रधानभूताः कल्पाधिपतय इन्द्राः शक्रादयः कल्पातीताश्च । तेषामृद्धिर्विभूतिर्या सा विस्मयकारिणी भवति प्राणिनाम् । अतो विस्मयनीयापि सती सा विभूतिरनगारद्धेः साधुजनसमृर्द्धर्नार्घति सहस्रभागम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy