________________
कोटिशतसहस्रगुणिताऽपि सा सुरवद्धिः कोटिलक्षगुणिताऽपि नाति । सहस्रांशेनाप्यनगारद्धेर्न तुल्यतामेतीत्यर्थः ॥२५७॥ ___ अव० सुखविभूतिरसामृतकल्पाहरिषु अगुरुः-गौरवरहितः अकृतादर इत्यर्थः । लब्धिमाकाशगमनादिकां दुष्प्रापां कापुरुषैः, तस्यामामौषध्यादिविभूतौ प्राप्तायामपि। सर्वसुखद्धिश्चतुविधेन्द्रविभूतिः ॥ (प्रशमरतिः गा०२५६-५७) । 15/6
[69] कारण महवा छद्धा, तत्थ संततोत्ति कारणं कत्ता । कज्जप्पसाहगतमं करणं मिउपिंडदंडाइं ॥२११२॥ कम्मं किरियाकारणमिह निच्चिट्ठो जओ न साहेइ । अहवा कम्मं कुम्भो, स कारणं बुद्धिहेउ त्ति ॥२११३॥ भव्यो त्ति व जोग्गो त्ति व, सक्को त्ति व सो सरूवलाभस्स । कारणसंनिॉम्मि वि जं नागासत्थमारंभो ॥२११४॥ बज्झनिमित्तावेक्खं, कज्जं वि य कज्जमाणकालम्मि । होइ सकारणमिहरा, विवज्जयाऽभावया होज्जा ॥२११५॥ देओ स जस्स तं संपयाणमिह तं पि कारणं तस्स । होइ तदत्थित्ताओ, न कीरए तं विणा जं सो ॥२११६॥ भूपिंडावायाओ पिंडो वा सकरादवायाओ। चक्कमहावाओ वाऽपादाणं कारणं तं पि ॥२११७॥ वसुहाऽऽगासं चक्कं सरूवमिच्चाइ संनिहाणं जं । कुम्भस्स तं पि कारणमभावओ तस्स जदसिद्धी ॥२११८॥
सप्तापि प्रायो व्याख्यातार्थाः, नवरं क्रियते का निर्वर्त्यत इति व्युत्पत्तेः कर्म भण्यते । कासौ क्रिया कुम्भं प्रति ? कर्तृव्यापाररूपा । सा च कुम्भलक्षणकार्यस्य कारणमिति प्रतीतमेव । आह-ननु कुलाल एव कुम्भं कुर्वन्नुपलभ्यते, क्रिया तु न काचित् कुम्भकरणे व्याप्रियमाणा दृश्यत इत्याह-इह निश्चेष्टः कुलालोऽपि यस्माद् न घटं साधयति निष्पादयति, या च तस्य चेष्टा सा क्रिया, इति कथं न तस्याः कुम्भकारणत्वम् ? इति । अथवा, कर्तुरीप्सिततमत्वात् क्रियमाणः कुम्भ एव कर्म । तहि कार्यमेवेदम्, अतः कथमस्य कारणत्वम् ? । न हि सुतीक्ष्णमपि सूच्यग्रमात्मानमेव विध्यति । ततः कार्यं निर्वर्त्यस्यात्मन एव कारणमित्यनुपपन्नमेव, इत्याह-‘स कारणं बुद्धिहेउ त्ति' स कुम्भः कारणं हेतुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org