________________
(तात्पर्यवृत्तिः) अथैकत्वपरिणतं शुद्धात्मस्वरूपसुलभं न भवतीत्याख्याति"सुदपरिचिदाणुभूदा" इत्यादि । सुदा-श्रुता अनन्तशो भवति । परिचिदापरिचिता सा पूर्वमनन्तशो भवति । अणुभूदा-अनुभूतानन्तशो भवति । कस्य ? सव्वस्सवि- सर्वस्यापि जीवलो कस्य । कासौ ? कामभोगबंधकहा कामरूपभोगाः कामभोगाः अथवा कामशब्देन स्पर्शनरसनेन्द्रियद्वयं भोगशब्देन घ्राणचक्षुःश्रोत्रत्रयं तेषां कामभोगानां बन्धः सम्बन्धस्तस्य कथा । अथवा बन्धशब्देन प्रकृतिस्थित्यनुभागप्रदेशबन्धास्तत्फलं च नरनारकादिरूपं भण्यते । कामभोगबन्धानां कथा कामभोगबन्धकथा, यतः पूर्वोक्तप्रकारेण श्रुतपरिचितानुभूता भवति ततो न दुर्लभा किन्तु सुलभैव । एयत्तस्स-एकत्वस्य सम्यग्दर्शनज्ञानचरित्रैक्यपरिणतिरूपनिविकल्पसमाधिबलेन स्वसंवेद्यशुद्धात्मस्वरूपस्य तस्यैकत्वस्य उवलम्भो-उपलम्भः प्राप्तिाभः णवरि-केवलं अथवा नवरि-किन्तु ण सुलभो ? नैव सुलभः । कथम्भूतस्यैकत्वस्य विभत्तस्स विभक्तस्य रागादिरहितस्य । कथं न सुलभ इति चेत्, श्रुतपरिचितानुभूतत्वाभावादिति ॥४॥ (स०प्रा० गा० ४) 15/2
[67] सम्प्रति भागलब्धदलिकं प्रभूततरं गुणश्रेणिरचनयैव जन्तुः क्षपयति अतो गुणश्रेणिस्वरूपप्रतिपादनार्थमाह
सम्मदरसव्वविरई उ अणविसंजोयदंसखवगे य । मोहसमसंतखवगे, खीणसजोगियर गुणसेढी ॥ ८२ ॥
गुणश्रेणय एकादश भवन्तीति सम्बन्धः । कुत्र कुत्र ? इत्याह-'सम्मदरसव्वविरई उ" इत्यादि । तत्र "सम्म'"त्ति सम्यक्त्वं-सम्यग्दर्शनं तल्लाभे एका गुणश्रेणिः । तथा विरतिशब्दस्य प्रत्येकं सम्बन्धाद् दरविरतिः-देशविरतिस्तल्लाभे द्वितीया गुणश्रेणिः । सर्वविरतिः-सम्पूर्णविरतिस्तल्लाभे तृतीया गुणश्रेणिः । 'अणविसंजोय" त्ति अनन्तानुबन्धिविसंयोजनायां चतुर्थी गुणश्रेणिः । "दंसखवगे" त्ति पदैकदेशे पदप्रयोगदर्शनाद् दर्शनस्य दर्शनमोहनीयस्य क्षपको दर्शनक्षपकस्तत्र तद्विषया पञ्चमी गुणश्रेणिः । चशब्दः समुच्चये । "मोहसम"त्ति मोहस्य-मोहनीयस्य शमः-शमक उपशमकः स चोपशमश्रेण्यारूढोऽनिवृत्तिबादरः सूक्ष्मसम्परायश्चाभिधीयते, तत्र मोहशमे षष्ठी गुणश्रेणिः । "संत" त्ति शान्तःउपशान्तमोहगुणस्थानकवर्ती तत्र सप्तमी गुणश्रेणिः । "खवगि" त्ति क्षपक:क्षपक श्रेण्यारूढोऽनिवृत्तिबादरः सूक्ष्मसम्परायश्च निगद्यते, तत्र क्षपकेऽष्टमी गुणश्रेणिः। "खीण' त्ति क्षीणः-क्षीणमोह[स्त]स्य नवमी गुणश्रेणिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org