________________
दातृगृहीत्रोरहितायेति तद्ग्राहकस्य व्यवहारतः संयमविराधनात् दायकस्य च लुब्धकदृष्टान्तभावितत्वेनाव्युत्पन्नत्वेन वा ददतः शुभाल्पायुष्कतानिमित्तत्वात्,शुभमपि चायुरल्पमहितं विवक्षया, शुभाल्पायुष्कतानिमितत्त्वं चाप्रासुकादिदानस्याल्पायुष्कताफलप्रतिपादकसूत्रे प्राक् चर्चितम्, यत्पुनरिह तत्त्वं तत्केवलिगम्यमिति । तृतीयसूत्रे 'अस्संजयअविरये'त्यादिनाऽगुणवान् पात्रविशेष उक्तः, 'फासुएण वा अफासुएण वा' इत्यादिना तु प्रासुकाप्रासुकादेर्दानस्य पापकर्मफलता निर्जराया अभावश्चोक्तः, असंयमोपष्टम्भस्योभयत्रापि तुल्यत्वात्, यश्च प्रासुकादौ जीवघाताभावेन अप्रासुकादौ च जीवघातसद्भावेन विशेषः सोऽत्र न विवक्षितः, पापकर्मणो निर्जराया अभावस्यैव च विवक्षितत्वादिति, सूत्रत्रयेणापि चानेन मोक्षार्थमेव यद्दानं तच्चिन्तितम्, यत्पुनरनुकम्पादानमौचित्यदानं वा तन्न चिन्तितम, निर्जरायास्तत्रानपेक्षणीयत्वाद्, अनुकम्पौचित्ययोरेव चापेक्षणीयत्वादिति, उक्तञ्च-"मोक्खत्थं जं दाणं तं पइ एसो विही समक्खाओ । अणुकंपादाणं पुण जिणेहिं न कयाइ पडिसिद्धं ॥१॥" इति [मोक्षार्थं यद्दानं तत्प्रति विधिरेष भणितः । अनुकम्पादानं पुनर्न कदाचित्प्रतिषिद्धम् ॥१॥] (भगवती श० ८ उ० ६ सू० ३३२) 14/7
[62] अपि च इदमपि ते श्राद्धा ज्ञापनीयाः संथरणम्मि असुद्धं, दोण्ह वि गिण्हंत-दितयाणऽहिअं। आउरदिटुंतेणं, तं चेव हिअं असंथरणे ॥१६०८ ॥
संथरेति-संस्तरणं नाम प्रासुकमेषणीयं चाशनादि पर्याप्तं प्राप्यते न च किमपि ग्लानत्वं विद्यते, तत्राऽशुद्धम्- अप्रासुकम् अनेषणीयं च गृह्णतो ददतश्च द्वयोरपि अहितम्-अपथ्यम्, गृह्णतस्संयमबाधाविधायित्वादददतश्च भवान्तरे स्वल्पायुर्निबन्धनकर्मोपार्जनात् । तदेवाशुद्धम् असंस्तरणे अनिर्वाहे दीयमानं गृह्यमाणं च हितं पथ्यं भवति-आह कथं तदेव कल्प्यं तदेव चाऽकल्प्यं भवितुमर्हति ? इत्युच्यते आतुरो रोगी, तस्य दृष्टान्तेनेदं मन्तव्यम् । यथा हि रोगिणः कामप्यवस्थामाश्रित्यौषधादिकम् अपथ्यं भवति काञ्चित् पुनः समाश्रित्य तदेव पथ्यमेवमिहापि भावनीयम् ॥ १६०८ ॥ (बृहत्कल्पभा० गा० १६०८) 14/7 [63] परमरहस्समिसीणं, समत्तगणिपिडगझरियसाराणं ।
परिणामियं पमाणं, निच्छ्यमवलंबमाणाणं ॥७६१॥ किञ्च-परमं प्रधानमिदं रहस्य-तत्त्वं केषाम्-ऋषीणां-सुविहितानाम्, किंविशिष्टानां ? समग्रं च तद् गणिपिटकं च समग्रगणिपिटकं तस्य क्षरितः-पतितः सारं-प्राधान्यं यैस्ते समग्रगणिपिटकक्षरितसारास्तेषामिदं रहस्यम्, यदुत पारिणामिकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org