________________
अतः परमवस्तुत्वप्रसक्तेः अन्त्यविशेषपर्यन्तत्वात् सर्वविशेषाणाम् अन्त्य इति विशेषणान्यथानुपपत्तेः ॥४७॥ (सन्म० कां० १ गा० ४७) 1417
[61] पञ्चमे श्रमणोपासकाधिकार उक्तः, षष्ठेऽप्यसावेवोच्यते, इत्येवं सम्बन्धस्यास्येदं सूत्रम्
समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जति ? गोयमा! एगंतसो निज्जरा कज्जइ नत्थि य से पावे कम्मे कज्जति । समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा अफासएणं अणेसणिज्जेणं असणपाणजावपडिलाभेमाणस्स किं कज्जइ ? गोयमा ! बहुतरिया से निज्जरा कज्जइ अप्पतराए से पावे कम्मे कज्जइ । समणोवासगस्स णं भंते ! तहारूवं अस्संजय-अविरय-पडिहय-पच्चक्खायपावकम्म फासुएण वा अफासुएण वा एसणिज्जेण वा अणेसणिज्जेण वा असणपाणजाव किं कज्जइ ? गोयमा ! एगंतसो से पावे कम्मे कज्जइ नत्थि से काइ निज्जरा कज्जइ ॥ (सूत्र ३३२) ॥
'समणे'त्यादि, किं कज्जइ'त्ति किं फलं भवतीत्यर्थः, “एगंतसो'त्ति एकान्तेन तस्य श्रमणोपासकस्य, 'नत्थि य से'त्ति नास्ति चैतद् यद् 'से'तस्य पापं कर्म 'क्रियते' भवति अप्रासुकदाने इवेति, 'बहुतरिय'त्ति पापकर्मापेक्षया 'अप्पतराए'त्ति अल्पतरं निर्जरापेक्षया, अयमर्थः-गुणवते पात्रायाप्रासुकादिद्रव्यदाने चारित्रकायोपष्टम्भो जीवघातो व्यवहारतस्तच्चारित्रबाधा च भवति, ततश्च-चारित्रकायोपष्टम्भान्निर्जरा जीवघातादेश्च पापं कर्म, तत्र च स्वहेतुसामर्थ्यात्पापापेक्षया बहुतरा निर्जरा निर्जरापेक्षया चाल्पतरं पापं भवति, इह च विवेचका मन्यन्ते-असंस्तरणादिकारणत एवाप्रासुकादिदाने बहतरा निर्जरा भवति नाकारणे, यत उक्तम्"संथरणंमि असुद्धं दोण्हवि गेण्हंतदितयाणऽहियं । आउरदिटुंतेणं तं चेव हियं असंथरणे ॥१॥" इति, [निर्वाहेऽशुद्धं गृह्णद्ददतोयोरप्यहितम् । आतुरदृष्टान्तेन तदेवासंस्तरणे हितं ॥१॥] अन्ये त्वाहुः-अकारणेऽपि गुणवत्पात्रायाप्रासुकादिदाने परिणामवशाद्बहुतरा निर्जरा भवत्यल्पतरं च पापं कर्मेति, निर्विशेषणत्वात् सूत्रस्य परिणामस्य च प्रमाणत्वात्, आह च-"परमरहस्समिसीणं समत्तगणिपिडगझरियसाराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं ॥१॥" [समस्तगणिपिटकस्मारितसाराणामृषीणां परमरहस्यं निश्चयमवलम्बयतां पारिणामिकं प्रमाणम् (विवादास्पदे दाने) ॥१॥] यच्चोच्यते 'संथरणंमि असुद्ध'मित्यादिनाऽशुद्धं द्वयोरपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org