________________
५९
अयमर्थः-परात्मनोर्विवेकाभावे परम् आत्मत्वेनाध्यास्य रज्यन्तो द्विषन्तो मुह्यन्तश्चात्यन्तप्रत्यस्तमितविविक्तात्मख्यातित्वाद् आत्मानं कर्तारं मन्यमाना नानारम्भान् समनुष्ठाय तद्विपाकवेदनाविधुरीकृता अनन्तकालं संसृतिनिवासं नोज्झन्तीति सोऽयमभेदज्ञानानुभावः ॥ ९ ॥ ( अ० बिं०द्वा०१ श्लो०९ ) 14/1
[59] सुक्कं पिऊणो माऊए, सोणियं तदुभयंपि संसद्वं । तप्पढमयाए जीवो, आहारइ तत्थ उप्पन्नो ॥ २५४ ॥ [ शुक्रं पितुः मातुः शोणितं तदुभयमपि संसृष्टम् । तत्प्रथमतया जीव, आहारयति तत्रोत्पन्नः ॥ २५४ ॥ ]
गर्भोत्पन्नः किमाहारयतीत्याह - सुक्केत्यादि तच्च तदुभयं च.... तदुभयं - शुक्रशोणितलक्षणं संसृष्टं-मिलितं तत्र गर्भे उत्पन्नजन्तुरभ्यवहरति । कयेत्याह तच्च तत् प्रथमं च तत्प्रथमं तद्भावस्तत्ता तया - तत्प्रथमतया प्रथममुत्पन्न इत्यर्थः । ( भवभावना गा० २५४ ) 14/4
को कायसुणयभक्खे, किमिकुलवासे य वाहिखित्ते य । देहम्मि मच्चुविहुरे, सुसाणठाणे य पडिबंधो ॥ ४२१ ॥
[ कः काकश्वभक्ष्ये, कृमिकुलावासे च व्याधिक्षेत्रे च । देहे मृत्युविधुरे, श्मशानस्थाने च प्रतिबन्धः ॥ ४२१ ॥ ]
ततो जिनवचनवासितान्तःकरणानां देहे कः प्रतिबन्धः स्यात् ? न कश्चिदित्यर्थः । कथंभूते देहे ? इत्याह- काककुक्कुरादिभक्ष्ये केवलकृमिकुलावासे समस्तव्याधिक्षेत्रे मृत्युविधुरे-मरणावस्थायां निःशेषकार्यकरणाक्षमे पर्यन्ते श्मशाने स्थानं यस्य तत्तथा तस्मिंश्चैवंभूत इति । एवं च नाम देहस्याशुचित्वं येन तत्सम्बन्धेऽन्यच्छुभमपि वस्तु अशुचित्वं प्रतिपद्यत इति दर्शयति । [ भ० भा० गा० ४२१] 14/4
[60] एतदेवाह—
अण्णोणाणुरायाणं, इमं व तं च त्ति विभयणमजुत्तं । जह दुद्ध - पाणियाणं, जावंत विसेस पज्जाया ॥४७॥
अन्योन्यानुगतयोः-परस्परानुप्रविष्टयोः आत्मकर्मणोः इदं वा तद् वा इति इदं कर्म अयमात्मा इति यद्विभजनं - पृथक्करणं तद् अयुक्तम्- अघटमानकम् प्रमाणाभावेन कर्तुमशक्यत्वात् । यथा दुग्धपानीययोः परस्परप्रदेशानुप्रविष्टयोः । किंपरिमाणोऽयमविभागो जीवकर्मप्रदेशयोः ? इत्याह- यावन्तो विशेषपर्यायास्तावान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org