________________
प्रमाणम्, परिणामे भवं पारिणामिकम्, शुद्धोऽशुद्धश्च चित्तपरिणाम इत्यर्थः । किंविशिष्टानां सतां पारिणामिकं प्रमाणं ? निश्चयनयमवलम्बमानानाम्, यतः शब्दादिनिश्चयनयानामिदमेव दर्शनम्, यदुत-पारिणामिकमिच्छन्तीति । आह-यद्ययं निश्चयस्ततोऽयमेवावलम्ब्यताम् । (ओघनियुक्तिः गा० .७६१) 14/7...32/3
[64] तस्मात् शास्त्रमधीत्य तदर्थावधारणं विधेयम्, अवधृतश्च तदर्थो नयप्रमाणाभिप्रायतो यथावत् परिभावनीयः, अन्यथा तत्फलपरिज्ञानविकलताप्रसक्तिरित्याह
चरण-करणप्पहाणा, ससमय-परसमयमुक्कवावारा । चरणकरणस्स सारं, णिच्छयसुद्धं ण याणंति ॥ ६७ ॥
चरणम्-श्रमणधर्मः वयसमणधम्मसंजमवेयावच्चं च बंभगुत्तीओ । णाणाइतियं तव कोहणिग्गहाइ चरणमेयं ॥ (ओ० नि० गा० २.) इतिवचनात् । व्रतानि-हिंसाविरमणादीनि पञ्च । श्रमणधर्मः क्षान्त्यादिर्दशधा, संयमः-पञ्चाश्रवविरमणादिः सप्तदशभेदः, वैयावृत्त्यं दशधा आचार्याराधनादि, ब्रह्मगुप्तयो- नव वसत्यादयः, ज्ञानादित्रितयं ज्ञान-दर्शन-चारित्राणि, तपो द्वादशधा अनशनादि, क्रोधादिकषायषोडशकस्य निग्रहश्चेत्यष्टधा चरणम् ॥ करणम् पिण्डविशुद्ध्यादिः पिण्डविसोही समिई भावणपडिमाइ इंदियनिरोहो । पडिलेहण-गुत्तीओ अभिग्गहा चेव करणं तु ॥ (ओ० नि० गा०३.) इति वचनात् तत्र पिण्डविशुद्धिः त्रिकोटिपरिशुद्धिराहारस्य संसट्ठमसंसट्ठा उद्धड तह अप्पलेविया चेव । उग्गहियापग्गहिया उज्झियधम्मा य सत्तमिया । इति सप्तधा वा । समितिः-ईर्यासमित्यादिः पञ्चधा । भावना-अनित्यत्वादिका द्वादश । प्रतिमा-मासादिका द्वादश भिक्षूणाम्, दर्शनादिकैकादशोपासकानाम् । इन्द्रियनिरोधः-चक्षुरादिकरणपञ्चकसंयमः । प्रतिलेखनं-मुखवस्त्रिकाद्युपकरणप्रत्युपेक्षणमनेकविधम् । गुप्तिः-मनोवाक्कायसंवरणलक्षणा त्रिधा । अभिग्रहावसतिप्रमार्जनादयोऽनेकविधाः, एतयोश्चरणकरणयोः प्रधानास्तदनुष्ठानतत्पराः, स्वसमय-परसमयमुक्तव्यापाराः, अयं स्वसमयःअनेकान्तात्मकवस्तुप्ररूपणात्, अयं च परसमयः केवलनयाभिप्रायप्रतिपादनात् इत्येतस्मिन् परिज्ञानेऽनादृता अनेकान्तात्मकवस्तुतत्त्वं यथावदनवबुध्यमाना तदितरव्यवच्छेदेनेति यावत्, चरणकरणयोः सारं-फलं निश्चयशुद्धम्-निश्चयश्च तत् शुद्धं च ज्ञानदर्शनोपयोगात्मकं निष्कलङ्कं न जानन्ति-न अनुभवन्ति, ज्ञानदर्शनचारित्रात्मककारणप्रभवत्वात् तस्य कारणाभावे च कार्यस्याऽसम्भवात् अन्यथा तस्य निर्हेतुकत्वापत्तेः चरणकरणयोश्च चारित्रात्मकत्वाद् द्रव्यपर्यायात्मकजीवादितत्त्वावगमस्वभावरुच्यभावेऽभावात् । अथवा चरणकरणयोः सारं-निश्चयेन शुद्धं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org